________________
पुण्यकार्येऽस्मिन् तरलिताः ते च साफल्यमप्यधिगतवन्तः। मया विलोकितं यज्जैनन्यायस्य प्राणभूतं तत्त्वमस्ति स्याद्वादस्य सिद्धान्तः। अनेकान्तस्यालोके प्रस्तुतग्रन्थोऽयं जैनतत्त्वानां सिद्धिं प्रस्तौति । ग्रन्थेऽस्मिन् अनेका विशेषताः सन्निहिताः सन्ति
१. अनुष्टुप्छन्दसि श्लोकानां प्रस्तुतीकरणं ग्रन्थकारैः। . २. सरलसुबोधदेववाण्यां व्याख्याया उपढौकनम् व्याख्याकारैः। ३. व्याख्याया हिन्दीरूपान्तरणम्। ४. न्यायप्रशिक्षूणां जिज्ञासूनां च कृते प्रवेशद्वारम्। ५. उपयोगिपरिशिष्टैः समलंकृतः। ..
पंडितवर्यैः ममोपरि विश्वासः कृतः। मयापि तदनुरूपं कृतं साहाय्यम्। परिणामस्वरूपं 'जैनन्यायपञ्चाशती' नामकं पुस्तकं प्राकाश्यमुपगतम्। लघुकलेवरकमपि पुस्तकं विदुषां तोषाय भविष्यतीति मे विश्वासः। युवमनीषिभिः पूज्यैराचार्य-महाश्रमणैरपि अस्य ग्रन्थस्य कृते शुभाशंसां विलिख्य महानुपकारो व्यधायि। तेऽपि सन्ति पूज्याः समादरणीयाश्च। पुस्तकमिदं बुधजनसन्दोहसमादृतं सत् भासतामनवरतमिति कामयमानः।
शासनश्री: मुनिः राजेन्द्रकुमारः
किशनगढ़नगरम् ९/३/२०११ बुधवासरम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org