________________
जैन न्यायपञ्चाशती
न्यायप्रकाशिका
उत्पादव्ययधुवत्वं वस्तुनो लक्षणम् । एतत्त्रयं यत्र न स्यात् तत्र वस्तुत्वं नैव तिष्ठति । एतदेव तथ्यं मृत्तिकादृष्टान्तेन प्रस्तूयते ।
मृत्पिण्डतः कञ्चन भागं गृहीत्वा घटः क्रियते । अवम् उत्पाद एव वस्तुन एकं रूपम् । यावन्मात्रेण मृद्भागेन निर्मितो घटस्तावन्मात्रस्य मृद्भागस्य नाशः । अयं नाश एव व्यय-पदेनाप्युच्यते । अनयोरुत्पादव्यययोः सतोरपि उभयत्र पार्थिवत्वं - मृत्तिकात्वं तिष्ठत्येव । एवं प्रकारेण घटभावेन उत्पादः, मृत्पिण्डरूपतः नाशः, पार्थिवत्त्वेन ध्रुवत्वमिति मृदस्त्रिरूपता सिद्ध्यति ।
साम्प्रतं कारिकाकारः घटयुक्त्या सर्वेषां पदार्थानां त्रिरूपत्वं साधयति । जागतिकसमस्तपदार्था उत्पद्यन्ते विपद्यन्ते च । तेषु प्रतिक्षणं उत्पादविनाशौ भवतः । एतावताऽपि ते स्वकीयं मूलस्वरूपं कदापि न त्यजन्ति, अर्थात् स्वस्वरूपे व्यवस्थिताः सन्ति । अत्र विचार्यते कथं ते व्यवस्थिताः ? इति चेत् इदमवधारणीयं यत् जैनदर्शनानुसारं प्रत्येकं वस्तुनि अंशद्वयं भवति - द्रव्यांशः पर्यायांशश्च । तत्र उत्पादो विनाशश्च इति एतद्द्वयं पर्यायांशे एव भवति । द्रव्यांशे तु मृत्पिण्डता सदा स्वस्वरूपे स्थिरा भवति । एवं च वस्तुनः पर्याया एव परिवर्तन्ते, किन्तु अवस्थाभेदेऽपि द्रव्यांशो न कदापि परिवर्तते । अतः नोज्झन्ति ते तत् क्वचित् इति कथनं समीचीनमेव ।
67
जैनदर्शनाभिमते यथा वस्तुनः स्वरूपं त्रयात्मकमस्ति तथैव मीमांसादर्शनेऽपि । तत्र वर्धमानकस्य दृष्टान्तेन तत्स्वरूपं साधितमस्ति । एवं पातञ्जलमहाभाष्येऽपि एतदेव तथ्यं प्रतिपादितम् । तत्रापि वस्तुनः नित्यानित्यत्वं स्वीकृतमस्ति । तत्रोक्तम् आकृतिरन्या अन्या च भवति, द्रव्यं पुनस्तदेव ।
१. उक्तं च
वर्धमानक भङ्गे च रूचकः क्रियते यदा । तदा पूर्वार्थिनः शोकः प्रीतिश्चाप्युत्तरवर्तिनः ॥ न नाशेन विना शोको नोत्पादेन विना सुखम् । स्थित्या विना न माध्यस्थ्यं तस्माद् वस्तुत्रयात्मकम् ॥ श्लोकवार्त्तिकम्, वनविभागः २१, २२ ।
२. व्याकरणमहाभाष्यम्, पस्पशाह्निके, पृ. ६३ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org