________________
54
जैनन्यायपञ्चाशती व्यवहारसाधनम् ज्ञानं विना कोऽपि व्यवहारो भवितुं नार्हति। उक्तं च तर्कसंग्रहे'सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम्।'
सर्वेषां व्यवहाराणां हेतुभूतो यो गुणः स एव बुद्धिर्ज्ञानम् वा। इदञ्च ज्ञानं स्वप्रकाशं भवति। यदि न स्यात् स्वप्रकाशं ज्ञानं तदा तस्य ज्ञानस्य प्रकाशनार्थं द्वितीयं ज्ञानमपेक्ष्यते, द्वितीयस्य प्रकाशनार्थं तृतीयस्य ज्ञानस्यावश्यकता अनुभूयते, तस्यापि प्रकाशनार्थं चतुर्थस्य ज्ञानस्यावश्यकता आगमिष्यति। एवञ्चात्र अनवस्थापातः स्यात्। तस्मादरङ्गीकरणीयं ज्ञानस्य स्वतः प्राकाश्यम्।
ज्ञानञ्चेदं द्विविधं नित्यमनित्यञ्च। नित्यज्ञानं सर्वेषु मनुष्येषु पशुषु पक्षिषु च स्वतः उपलभ्यते। सद्योजातस्य बालस्य दुग्धपाने प्रवृत्तिं दृष्ट्वा पक्षिणाञ्च स्वशावकपरिरक्षणसमीहया प्रशिक्षणं विनैव विलक्षणनीडनिर्माणकलाञ्च दृष्ट्वा कः खलु न स्वीकरिष्यति ज्ञानस्य शाश्वतिकत्वम्। अत एव श्रूयते 'सत्यं ज्ञानमनन्तमिति' नित्यज्ञानस्य लक्षणम्।
___ अनित्यज्ञानञ्च इन्द्रियविषययो: सन्निकण जायते। तदुक्तम्'इन्द्रियमनोनिबन्धनं मतिः'। यस्मिन् झाने इन्द्रियाणां मनसश्च अपेक्षा भवति तदेव मतिज्ञानम्। न्यायदर्शने तु प्रत्यक्षप्रमाणमेवं लक्षितमस्ति-'इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रमाणम्'।' स्यात् परोक्षज्ञानं प्रत्यक्षज्ञानं वा यद् ज्ञानं जन्यते तदनित्यमेव। अस्यां स्थितौ नित्यमखण्डबोधं यच्च केवलज्ञानपदेनाप्युच्यते। तदतिरिक्तं निखिलं जन्यमानं ज्ञानमनित्यमेवेति बोध्यम्। ह्रासविकासविस्मृत्यादयो विकारा अत्रैव भवन्ति।
ज्ञान गुण है। यह किसका गुण है, इस जिज्ञासा में कहा गया है-ज्ञान आत्मा का गुण है। गुण गुणी (आत्मा) में रहता है। वहां उसका अवस्थान समवाय
१. प्रत्यक्षपरिच्छेदः, पृ. २०। २. तैत्तरीयोपनिषद्, पृ. ३०५। ३. भिक्षुन्यायकर्णिका, तृतीयो वि., सू. ३ । ४. तर्कसंग्रहः, प्रत्यक्षपरिच्छेदः, पृ. ३३ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org