________________
जैनन्यायपञ्चाशती
(२४) सम्प्रति ज्ञानस्य स्वरूपं प्रस्तौतिअब ज्ञान के स्वरूप को प्रस्तुत कर रहे हैं
ज्ञानमात्मगुणस्तावद् गुणिनं नातिवर्तते। तदतिक्रमणे तस्य स्यात् सत्त्वं खपुष्पवत्॥ २४॥ ज्ञान आत्मा का गुण है, इसलिए वह गुणी (आत्मा) का अतिवर्तन नहीं करता-गुणी को छोड़कर बाह्यदेश में नहीं रहता। यदि वह आत्मा का अतिक्रमण करे-आत्मा के बाह्य-देश में रहे तो वह आधारशून्य होकर आकाशपुष्प की भांति असत् हो जाता है। न्यायप्रकाशिका ___ ज्ञानं गुणोऽस्ति। इदं कस्य गुण इति जिज्ञासायामाहज्ञानमात्मगुण इति। गुणो गुणिनि तिष्ठति। तत्र तदवस्थानं समवायसम्बन्धेन भवति। गुणगुणिनोः समवायसम्बन्धस्य विश्रुतत्वात्। समवायो हि नित्यसम्बन्धः। संयोगसम्बन्धवत् नायमल्पकालिकः सम्बन्धः, किन्तु अधिष्ठानसमसत्ताकः समवायः।
आत्मनों गुणो ज्ञानं स्वाधारभूतमात्मानं कदापि नातिक्रमते-अर्थात् आत्मानम् अपहाय क्षणमपि बहिःस्थातुं न शक्नोति। तदतिक्रमणे-आत्मनो गुणिनोऽतिक्रमणे तस्य ज्ञानस्य सत्त्वमेव-अस्तित्वमेव खपुष्पवत्-आकाशकुसुमवत्-अलीकं मिथ्येति यावत् स्यात्। यथा अरूपिण आकाशस्य कुसुमं न भवति तथैव ज्ञानमपि यदि स्वाधारभूतमात्मानं परित्यजति चेत् तदा आधारहीनस्य ज्ञानस्य स्थितिः कुत्र वक्तुं शक्या भवेत्? ततश्च ज्ञानमलीकमसदेव स्यात्। अत्रेदं स्वीकरणीयं यत् ज्ञानं स्वाधिष्ठानमात्मानं क्षणमपि न त्यजति। ततो वियुक्तो न भवतीति भावः।
एतादृशस्य ज्ञानस्य किं लक्षणम्? किं वा स्वरूपमिति विषये न स्यात् कस्यापि विमतिर्यत् ज्ञप्तिर्ज्ञानमिति व्युत्पत्त्या ज्ञानं प्रकाशात्मकम्। स्वयंप्रकाशमानं सत् ज्ञानं पदार्थान् प्रकाशयति। इदमेव अस्माकं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org