________________
जैनन्यायपञ्चाशती
3. प्रमाणं प्रत्येकं दर्शने उपयुज्यत इति कृतं तत्तदर्शनेऽस्य लक्षणम्। वर्तते चात्र वैमत्यं दार्शनिकानाम्। तत्र तावत् नैयायिका वदन्ति यत् 'प्रमाकरणं प्रमाणम्'। न च प्रमायाः करणानि बहूनि सन्ति प्रमातृप्रमेयादीनि। किन्तु नैतानि सर्वाणि प्रमाणानि, यतो हि सत्यपि प्रमातरि प्रमेये च नोत्पद्यते प्रमा, किन्तु यदा विषयैः सह जायन्ते इन्द्रियसंयोगादयस्तदैवोत्पद्यते प्रमेति दृष्ट्वा एतदेव निश्चीयते यत् इन्द्रियसंयोगादिरेव करणम्। किन्तु कथनमेतन समीचीनम्। यतो हि जडानि इन्द्रियाणि, तेषां संयोगोऽपि जड एव। जडपदार्थैः कथमुत्पद्यतां ज्ञानम्। तस्मान्न इन्द्रियसंयोगादिः प्रमाणम्। किञ्चेन्द्रियसंयोगादेः प्रमाणत्वमपि अव्याप्त्यादिदोषग्रस्तम्। न च भवति चक्षुःसंयोगः पदार्थैः सह, चक्षुषोऽप्राप्यकारित्वात्। तस्मान इन्द्रियसंयोगादिः प्रमाणम्। उपर्युक्तरीत्या सांख्याभिमत' इन्द्रियव्यापारोऽपि अचेतनत्वादप्रमाणमेव।
एवमेव मीमांसकाभिमतो' ज्ञातृव्यापारोऽपि न भवितुमर्हति प्रमाणताम्। जडोऽचेतनः कर्तुः व्यापारोन कदापि प्रमाणम्।अनयैव रीत्या जयन्तभट्टानुसार घटवदज्ञानस्वरूपस्य कारकसाकल्यस्यापि प्रमाणत्वं निराकृतं भवति।वस्तुतस्तु कारकसाकल्यस्य स्वरूपमेव सुस्थिरं न भवतीति तस्य प्रमाणत्वंवक्तुमशक्यमेव।
अनेन विवेचनेन इदं विज्ञातं भवति यत् विभिन्नदार्शनिकैर्यत् प्रमाणस्य लक्षणं प्रस्तुतीकृतं तत् सर्वम् अनुपयुक्तमेव, यतो हि तैः स्वीकृतम् प्रमाणत्वं जडपदार्थे न संघटते। तस्मात् ग्रन्थकारकृतं हेयोपादेयविवेचकं ज्ञानमेव प्रमाणं मन्तव्यम्, तस्य स्व-परप्रकाशकत्वात्।
१. तर्कभाषा, गजाननशास्त्रीकृतटीका। २. प्रमाणं वृत्तिरेव च : योगवार्तिकम् : पृ. ३०, सांख्यप्र. भाष्यम् १-८७। ३. तेन जन्मैव विषये बुद्धापार इष्यते। तदेव च प्रमारूपं तद्वती कारणं च धीः॥.. ..
___ श्लोकवार्त्तिकम् : पृ. १०९, श्लो. ५६ । ४. अव्यभिचारिणीमसन्दिग्धामर्थोपलब्धिं विदधती बोधाऽबोध
स्वभावा सामग्री प्रमाणम् : न्यायमंजरी, पृ. १२ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org