________________
104
जैनन्यायपञ्चाशती
व्यवहारप्रयोजको भवति । अनेन प्रकारेणेदं सिद्धं भवति यत् लक्षणद्वारा एकः पदार्थः पदार्थान्तरेभ्यः पृथक् भूत्वा व्यवहारं साधयति । तदुक्तम्व्यावृत्तिर्व्यवहारोवा लक्षणस्य प्रयोजनम् इति । तथा चात्रोच्यते - जीवः अजीवादिपदार्थभिन्नः चेतनावत्वात् । अनेन प्रकारेण जीवपदार्थस्य अन्येभ्यः पदार्थेभ्यः पार्थक्यं भवति । न्यायदर्शनेऽपि पृथिव्याः लक्षणमित्थं कृतं वर्तते गन्धवती पृथिवी इति । अत्र पृथिवी लक्ष्या गन्धवत्वं च तदीयं लक्षणम् । अनेन गन्धवत्वलक्षणेन पृथ्वी इतर पदार्थेभ्यः पृथक् क्रियते । यथा - पृथिवी इतरभिन्ना गन्धवत्वात् । अनेन प्रकारेण यस्य कस्यापि पदार्थस्य पदार्थान्तरेभ्यः पृथक्करणं व्यवहारप्रयोजकत्वंच लक्षणस्य प्रयोजनं वेदितव्यम् ।
तदेतल्लक्षणप्रसङ्गे लक्षणाभासा अपि सन्ति वर्णिता अत्र । यथा अहेतुत्वेऽपि हेतुवत् प्रतीयमाना हेत्वाभासा भवन्ति, तथैव अलक्षणेऽपि लक्षणवत् प्रतीयमाना लक्षणा भासा भवन्ति । लक्षणाभासो दुष्टं दोषयुक्तं वा लक्षणं भवति । तत्र लक्षणाभासस्य त्रयो भेदा भवन्ति । ते च इत्थम् अव्याप्तः, अतिव्याप्तः असंभवी च । तत्राव्याप्तो नाम-लक्ष्यैकदेशवृत्तिर्भवति । तात्पर्यमिदं यत् यल्लक्षणं लक्षणस्य एकदेशे एकस्मिन्नेव लक्ष्ये गच्छेत्, अन्यस्मिन् च न गच्छेत् तल्लक्षणम् अव्याप्तनामको लक्षणाभासः । लक्षणेन प्रत्येकं लक्ष्ये गन्तव्यं, किन्तु अव्याप्तनामको लक्षणाभासस्तु लक्ष्याणां मध्ये क्वचिदेकस्मिन्नेव लक्ष्ये गच्छति न तु सर्वस्मिन् लक्ष्ये । यथा पशोर्लक्षणं विषाणित्वं क्रियते चेत् इदं लक्षणं गोमहिष्यादिषु गच्छदपि विषाणरहिते व्याघ्रहस्त्यादिषु न यास्यतीति लक्षणमिदम् अव्याप्तलक्षणाभासपदेनोच्यते ।
यल्लक्षणं लक्ष्ये अलक्ष्ये चेति उभयत्र गच्छति तल्लक्षणम् अतिव्याप्तलक्षणाभास इत्युच्यते। लक्ष्यवृत्तित्वे सति अलक्ष्यवृत्तित्वमिति तदीयं लक्षणम् । यथा-वायोर्लक्षणं गतिमत्वं क्रियते चेदिदं लक्षणं वायोर्भिन्नेषु मनुष्यपश्वादिषु सर्वेषु गतिमत्पदार्थेषु अपि यास्यति । तस्मात् लक्ष्यवृत्तित्त्वे सति लक्ष्येतरवृत्तित्त्वरूपोऽतिव्याप्तलक्षणाभासोऽयम् ।
असम्भवी लक्षणाभासोऽसावुच्यते यो हि लक्ष्यमात्रे न गच्छेत् । तात्पर्यमिदं यत् यल्लक्षणमेकस्मिन् अपि लक्ष्ये न यायात् तल्लक्षणमसंभवीनामा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org