________________
102
जैनन्यायपञ्चाशती न्यायप्रकाशिका
इतः पूर्वश्लोके आत्मनो नानात्वं प्रतिपादितमस्ति यत् आत्मासंख्यप्रदेशी स्यात् सर्वे ज्ञानमयाश्च ते। तात्पर्यमिदं यत् प्रतिशरीरं भिन्न आत्मा भवति।स च ज्ञानमयः। तदीयं ज्ञानं स्वकीयं ज्ञानं न तु कुतश्चित् समागतम्।
एतद्विपरीतम् उपलभ्यते तत्त्वमिदं यत् एकमेव चैतन्यं बिम्बत्वक्रान्तमीश्वरचैतन्यं, प्रतिबिम्बत्वानान्तं जीवचैतन्यम्। बिम्बप्रतिबिम्बकल्पनोपाधिः एकजीववादे अविद्या, अनेकजीववादे तु अन्तःकरणान्येव । __एतन्मतं निराकुर्वन् कथयति अत्र ग्रन्थकारो यत् आत्मा अनेकप्रदेशी भवति। तस्यासंख्यप्रदेशाः सन्ति। आत्मा अनेकभेद भिन्नो ज्ञानमयो भवति। तस्य ज्ञानं स्वकीयं स्वतः सिद्धमस्ति न तु कस्यापि बिम्बस्य। जले चन्द्र इव नास्ति अत्र बिम्बप्रतिबिम्बभावः।
तत्र तुजले यद्दृश्यते तत्तुन प्रतिबिम्बम्, किन्तु तत्तु एकं परिणमनमस्ति। अस्मिन् परिणमने स्वच्छजलस्य तथा चन्द्रस्य चेत्युभयोः सामर्थ्यमस्ति।अन्यथा यदि एवं न स्यात् तदा कश्मले-मलिने जले चन्द्रस्य सत्त्वेऽपि कथं न पतति प्रतिबिम्बम्? वस्तुतस्तु न युज्यतेऽत्र बिम्बप्रति-बिम्बभावः। कारणञ्चास्येदमेव यत् बिम्बप्रतिबिम्ब भावस्तु रूपवतोरेव भवति, यथा दर्पणे मुखस्य पतति प्रतिबिम्बम्।न चैषा स्थितिवर्त्तते जीवेश्वरयो।इमौ द्वावप्यमूर्ती । नहि अमूर्तस्थले भवति बिम्बप्रतिबिम्बभावः। तस्मात् कथन-मिदमयुक्तमेव यत् जीव ईश्वरस्य प्रतिबिम्बमस्तीति।जीवोऽपिस्वतन्त्रसत्ताको ज्ञानवान्।जले यत् दृश्यते प्रतिबिम्बं तत्र परिणमनमात्रमेवास्तीति तत्त्वम्। अत एव सत्यपि बिम्बे चन्द्रे जलं च मलिनं तत्र न भवति परिणमनम्। अतो नात्र प्रतिबिम्ब इति अत्रत्यः सारः।
इससे पूर्वश्लोक में आत्मा के नानात्व की बात कही गई है कि आत्मा असंख्यप्रदेशी है। अर्थात् आत्मा के असंख्य प्रदेश हैं। वे सब ज्ञानमय हैं। तात्पर्य यह है कि आत्मा प्रति शरीर में भिन्न-भिन्न है। वह आत्मा ज्ञानमय है। उसका
१. वेदान्तपरिभाषाः गजाननशास्त्री मुसलगांव कर, पृ. ३५६ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org