________________
94
जैनन्यायपञ्चाशती शीतस्पर्शवत्वमपि तत्रानुभूयत एव। एवञ्च स्पर्शवर्णयोस्तत्र उद्भूतत्वेऽपि रसगन्धयोस्तु अनुद्भूतत्वमिति चतुर्णा स्पर्श-रस-गन्ध-वर्णानामाश्रयस्तमः पौद्गलिकमिति न संशयः। तच्चेदं तमो गुणपर्यायाश्रयत्वात् द्रव्यमिति कथ्यते। न्यायदर्शनेऽपि गुणक्रियाश्रयो द्रव्यमिति परिभाषितं द्रव्यम्। गुणपदेनन्यायदर्शने रूपरसगन्धादयः चतुर्विंशतिगुणा गृह्यन्ते। क्रियापदेन च गमन-पचन-चलनादिक्रिया गृह्यन्ते। एतद्वयं यत्र तिष्ठति तदेव द्रव्यमिति न्यायदर्शने।
तमसः कृते भवति एतादृशः प्रयोगः 'नीलं तमश्चलति" इति। अत्र नीलपदेन तमसो रूपवत्वं तथा चलति पदेन तस्य क्रियावत्वं स्पष्टमेव प्रतीयते। अनया रीत्या तमसो द्रव्यत्वं प्रतिपादयदपि न्यायदर्शनं तमसो विषये संदिहानं कथयति यत् तमो न द्रव्यम्। इदन्तु तेजसोऽभावरूपमेव। एतन्मतं निराकुर्वन् ब्रूते ग्रन्थकारः यत् तमो हि भासाम्-तेजसाम् अभावो नास्ति। यः पौद्गलिकः गुणाश्रयः क्रियाश्रयश्च तस्य द्रव्यत्वमपाकर्तुं नैव शक्यते। यदि कथ्यते यत् न्यायदर्शनाभिमतेषु नवद्रव्येषु यस्मिन् कस्मिंश्चिद् द्रव्ये तमसोऽन्तर्भावः क्रियताम्। कावश्यकता तमसः स्वीकारस्येति। किन्तु कथनमिदमप्ययुक्तमेव। यतो हि आकाशकालदिगात्ममनःसु रूपरहितेषु पञ्चद्रव्येषु रूपवतस्तमसोऽन्तर्भावो यत्नसहस्रेणाप्यशक्य एव। एवं निर्गन्धतमसो गन्धवत्यां पृथिव्यामप्यन्तर्भावोऽशक्य एव। शीतोष्णस्पर्शवतो: जलतेजसोरपि स्पर्शविहीनस्य तमसो नान्तर्भावः। रूपरहितस्पर्शवति वायावपि रूपवतस्तमसः कथमपि नान्तर्भावः। तस्मात् तम एकं द्रव्यमिति न विसंवादः। यदप्युच्यते तमसि चलन क्रिया दीपापसरणप्रयुक्ता न तु वास्तविकी इत्यपि कथनं नः पक्षमेव दृढीकरोति, यतो हि दीपापसरणेन किमपि द्रव्यमेव चलितुं शक्नोति न तु किमपि शून्यं तत्त्वम्। तमसि नीलत्वप्रतीति (न्तिरिति कथनमपि अयुक्तमेव यतोहि सदृशे वस्तुन्येव तत्सदृशस्य भ्रमो भवति। रज्जौ सर्प इव। न चात्र तथेति अत्र भ्रमकथनं मुधैव।
१. तर्क संग्रह न्यायबोधिनी, पृ. ३८ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org