________________
92
जैनन्यायपञ्चाशती अमूर्त स्वीकार किया जाए तो वह श्रुति का विषय नहीं हो सकता। इस स्थिति में 'श्रोत्रग्राह्यो गुणः शब्दः' श्रोत्रग्राह्य शब्द गुण है, यह शब्द की परिभाषा अर्थहीन हो जाएगी। इसलिए अमूर्त पदार्थ इन्द्रियप्रत्यक्ष के विषय नहीं होते, मूर्त पदार्थ इन्द्रियप्रत्यक्ष के विषय होते हैं। इसलिए मूर्त शब्द आकाश का गुण नहीं है, यही पक्ष युक्त है।
(४२) साम्प्रतं शब्दतुल्यस्य ध्वनेरपि रूपवत्वं पौद्गलिकत्वञ्च साधयति अब शब्द के समान ध्वनि का भी रूपवत्व और पौद्गलिकत्व सिद्ध कर रहे हैं -
रूपवत् पौद्गलिकत्वं निनदस्यापि सेत्स्यति।
गृहीतिश्च स्थितिर्यन्त्रे द्वयोरपि समा यतः॥४२॥ . शब्द रूपवान् है और पौद्गलिक है। शब्द की तरह ध्वनि भी रूपवान् और पौद्गलिक सिद्ध होगी, क्योंकि यन्त्र में शब्द और ध्वनि दोनों का ही ग्रहण और स्थिरीकरण समान होता है। न्यायप्रकाशिका
शब्दो रूपवान् पौद्गलिकश्चास्ति तथैव ध्वनिरपि रूपवान् पौद्गलिकश्चास्ति। उभावपि वर्णगन्धरसस्पर्शवन्तौ पुद्गलानां प्रचयौ स्तः। यथाशब्दो मूर्तोऽस्ति ध्वनिरपि तथा मूर्तः। द्वयोः न कापि असमानता दृश्यते। ___ आकाशे केनापि प्रकारेण समुत्पन्नः क्षोभो वायुतरङ्गैराकृष्यमाणः कर्ण यावदुपेत्य श्रुतिगोचरो भवति अथवा भवितुं शक्नोति स शब्दः। स च द्विविधः-वर्णात्मको ध्वन्यात्मकश्च।स्वरयन्त्रजन्यः शब्दो वर्णात्मकः, ताललयमृदङ्गादिप्रादुर्भूतः शब्दो ध्वन्यात्मकश्च। ____ यथा दूरभाषादियन्त्रेषु शब्दा गृह्यन्ते स्थिरीक्रियन्ते च तथैव ध्वनयोऽपि। यन्त्राणि तु केवलं मूर्तशब्दान् ध्वनीन् चैव ग्रहीतुंशक्नुवन्ति न तु अमूर्तद्रव्याणि। शब्दा ध्वनयश्च मूर्ताः सन्ति। अत एव पुद्गलादन्यत् सर्वममूर्तमेवास्ति। अनेन स्पष्टमिदं यत् शब्दध्वन्योरुभयोर्ग्रहणं स्थिरीकरणं च तुल्यं भवतीत्याशयः प्रस्तुतकारिकायाः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org