________________
86
जैनन्यायपञ्चाशती
१२
जगपि तमसाच्छन्नमेव स्यात् । शब्दस्य गुणविषये दार्शनिकानां परस्परं मतभेदोऽस्ति । तत्र तावन्न्यायदर्शने शब्दस्य परिभाषा एवं कृता वर्तते 'श्रोत्रग्राह्यो गुणः शब्दः । श्रोत्रग्राह्यत्वे सति यद् गुणत्वं तदेव शब्दस्य लक्षणम् । कस्यायं गुण इति जिज्ञासायामुक्तम् 'शब्दगुणकमाकाशम् । शब्द आकाशस्य गुणोऽस्ति । स च ध्वन्यात्मकोवर्णात्मकश्च भेदभिन्नो द्विविधः ।
१३
व्याकरणशास्त्रे च शब्दस्य आकाशदेशत्वं स्वीकृतं न तु आकाशगुणत्वम् । तथा चोक्तं व्याकरणमहाभाष्ये'-' श्रोत्रोपलब्धिर्बुद्धिनिग्रह्यः प्रयोगेणाभिज्वलितः आकाशदेशः शब्दः।' अस्य तात्पर्यम् - शब्दस्योपलब्धिर्ज्ञानं श्रोत्रद्वारा भवति । अयं बुद्ध्या गृह्यते प्रयोगेण चाभिज्वलितः - प्रकाशितो भवति । एतादृशः शब्दः आकाशदेशोऽस्ति । एवं शब्दस्य आकाशगुणत्वं निराकृतं भवति व्याकरणमते । अनेन प्रकारेण मीमांसादर्शनेऽपि शब्दस्य आकाश - गुणत्वं निराकृत्य तस्य द्रव्यत्वमेक स्वीकृतम् । तत्रोक्तम्
श्रोत्रमात्रेन्द्रियग्राह्यः शब्दः शब्दत्वजातिमान् । द्रव्यं सर्वगतो नित्यः कुमारिलमते मतः ॥ वियद्गुणत्वं शब्दस्य केचिदूचुर्मनीषिणः । प्रत्यक्षादिविरोधात् तद् भट्टपादैरुपेक्षितम् ॥
तात्पर्यमिदं यत् शब्दः श्रोत्रेन्द्रियमात्रग्राह्यः सर्वगतो नित्यो द्रव्यमस्ति । न च अयं आकाशगुणोऽस्ति । किञ्च शब्दस्य आकाशगुणत्वस्वीकारे प्रत्यक्षविरोधोऽस्ति । गुणो हि गुणिनि वर्तते । शब्द आकाशे न दृश्यते आकाश
१. इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम् ।
यदि शब्दाद्वयं ज्योतिरासंसारं न दीप्यते ॥ ( - दण्डी - काव्यादर्श: )
२. तर्कसंग्रहः पृ. २४ ।
३. तर्कसंग्रहः पृ. ११ ।
४. पस्पशाह्निकमहाभाष्यम्ः पृ. ६३ ।
५, ६. मानमेयोदयः, प्रमेयानि - २२९, ३० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org