________________
87
जैनन्यायपञ्चाशती स्याऽमूर्तत्वात्। यथा-ज्ञानमात्मगुणः। ज्ञानात्मानौ उभावपि अमूर्ती । मूर्तः शब्दः अमूर्ताकाशस्य गुणो भवितुं नार्हतीति द्रव्यमेव शब्दः न तु आकाशगुणः। ___'अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः' इति कथनेन भर्तृहरिणापि शब्दानां परमाणुप्रचयत्वं प्रोक्तम्। अनेन शब्दस्य द्रव्यत्वमेव वक्तुं शक्यते। तस्मात् शब्दो नाकाशगुणः।। ___जैनदर्शनानुसारेण च संहन्यमानानां भिद्यमानानांच पुद्गलानां ध्वनिरूपः परिणामः स उच्यते शब्दः। तस्योत्पत्तिः असम्बद्धपुद्गलानां सम्बन्धात् अथवा सम्बद्धपुद्गलानां सम्बन्धविच्छेदात् जायते। स च पुद्गलप्रचयोऽस्ति। वर्णगन्धरसस्पर्शवन्तः एव पुद्गला इति तल्लक्षणम्। पुद्गलानां प्रचयोऽस्ति पुद्गलसमूहः। यस्मिन् इमे चत्वारः तिष्ठेयुः स पदार्थः रूपी-मूर्तो भवति। अत एव शब्दो मूर्त एव।सच सचित्ताचित्तमिश्रभेदात् त्रिविधः। प्रकारान्तरेणायं जीवः अजीवो मिश्रोप्युच्यते।मनुष्यादिचित्तवद्भ्यः प्राणिभ्यो जायमानः शब्दः सचित्तशब्दः। यथा-पशुपक्षिमनुष्याणांशब्दः।अचित्तवद्भ्यो जडादिपदार्थेभ्यः उत्पन्नशब्दः अचित्तशब्दः। यथा-त्रुट्यतां काष्ठादिपदार्थानां शब्दः। सचित्ताचित्तसंयोगात् प्रादुर्भूतशब्दो मिश्रशब्दः। यथा-वीणावादनशब्दः, कांस्यतालझल्लरीणां शब्दः।
जैनदर्शनमते शब्द आकाशगुणो न स्वीकृत।नैयायिकादयो ये दार्शनिकाः । यत् मन्वते तन्न युक्तम्। यतो हि गुणो हि गुणिनि वर्तते। आकाशः अमूर्तः शब्दश्च मूर्त इति स्थितौ मूर्तः शब्दः पौद्गलिकत्वात् आकाशस्य गुणो भवितुं न शक्नोति किन्तु द्रव्यमेव सः।
शब्द जगत् में व्यवहार का माध्यम है वह प्रकाशस्वरूप है। यदि इस जगत् में शब्द न होता तो सर्वथा जीवनव्यवहार का लोप हो जाता। उसके बिना संसार भी अन्धकार से तमसाच्छन्न हो जाता। शब्द के गुण के विषय में दार्शनिकों का परस्पर मतभेद है। न्यायदर्शन में शब्द की परिभाषा इस प्रकार की गई है-'श्रोत्रग्राह्यो गुणः शब्दः'। अर्थात् श्रोत्र से ग्राह्य जो गुण है वही शब्द है। वह किसका गुण है, इस
१. वाक्यपदीयम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org