________________
148 ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये सांख्येन योगेन कर्मयोगेन चापरे ।
149 अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्यु श्रुतिपरायणाः ॥
150 सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ।
__ निबध्नन्ति महाबाहो - देहे देहिनमव्ययम् ॥
151 सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।
ज्ञानं यदा तदा विद्याद्विवृद्वं सत्त्वमित्युत ॥
152 लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ।
153 अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । __ तमस्येतानि जायन्ते विवृद्ध कुरुनन्दन ॥
54 ]
गीता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org