________________
111
ज्ञानयज्ञ ेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥
112 अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥
113 पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । भक्त्युपहृतमश्नामि
तदहं
प्रयतात्मनः
114 यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥
115 शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः 1 संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥
116 समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥
42 ]
Jain Education International
For Personal & Private Use Only
गीता
www.jainelibrary.org