________________
65 यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन ॥
66 यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥
67 उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
प्रात्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥
68 बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥
69 जितात्मनः प्रशान्तस्य परमात्मा समाहितः । - शीतोष्णसुखदुःखेषु तथा मानावमानयोः ॥
70 ज्ञानविज्ञानतृप्तामा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥
26 ]
गीता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org