________________
160 अभयं
सत्वसंशुद्धिर्ज्ञानयोगव्यव स्थितिः I
दानं दमश्च यज्ञश्च स्वाध्यायस्तप श्रार्जवम् ॥ 161 अहिंसा सत्यमक्रोधस्त्याग: शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं हीरचापलम् ॥ 162 तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति संपदं देवीमभिजातस्य भारत 11
163 दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च प्रज्ञानं चाभिजातस्य पार्थ संपदमासुरोम् ॥
164 देवी संपद्विमोक्षाय निबन्धायासुरी मता 1 मा शुचः संपदं देवोमभिजातोऽसि पाण्डव 11
165 प्रवृत्ति च निवृत्ति च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥
166 काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः मोहाद्गृहीत्वा सद्ग्राहान्प्रवर्तन्तेऽशुचिवताः
58 ]
Jain Education International
For Personal & Private Use Only
1
"
गीता
www.jainelibrary.org