________________
श्रुतपञ्चमीस्तवनम् • ४७ कर्णातिथीभवति नैव चरित्रराजनिस्वाननादसमजैनवचोऽस्य यावत् ।।७।। ये पञ्चमीतिथिषु बद्धविशुद्धसन्धा, आराधयन्ति विधिवद् विशदागमं तम् । वर्षाणि पञ्चदशपक्षयुतानि नित्यमेकासनादिविलसत् सुतपोविशेषैः ।।८।। न व्यापदुल्लसति याति जडत्वमारादाराधनं विदधते विमला गुणौघाः । दूरे न केवलकला कमलाऽपि तेषां, श्रीपञ्चमीतिथितपश्चरणप्रभावात् ।।९।। संसुद्धश्रुतपञ्चमीतपसि ये नित्यं निबद्धादरा रम्योद्यापनकप्रथां प्रगुणयन्त्याऽऽपूर्यपूर्णं तपः । चञ्चत्पुस्तकपाटिकाप्रभृतिभिर्नानाविधैर्वस्तुभिस्तेषां मुक्तिनितम्बिनीकुचतटक्रीडा सनीडा नृणाम् ॥१०॥ [शार्दूल०] क्वाहं वैधेयधुर्यः प्रवरपदलसधुर्यमाधुर्यधुर्या, वाणी क्वाऽसौ जिनानां नयगमगहना हेतु-दृष्टान्तसारा । अस्या स्तोत्रे पवित्रे नि[बि]डजलधियोरे जन्म मा भूतदेतत्, पानं चन्द्रद्युतीनां निज़भुजयुगतो वारिधेर्लङ्घनं वा ॥११॥ [स्रग्धरा] इत्थं स्तोत्रं पवित्रं विविधभणितिभिर्बद्धमम्भेधिरङ्गत्संसाराऽपारनीरप्रतरणकरणे शस्तबोहित्थकल्पम् । यः श्रद्धाचारुचित्तः पठति दिविषदा वासवाऽऽसेव्यपश्चात्, विज्ञातश्रौतसारः सुपदपदमयं सिद्धिसौधे विधत्ते ॥१२॥ १. प्रतौ 'निस्वान्' इति पाठः । २. 'जडधियः' इति ड-लयोः ऐक्यात् । ३. बोहित्थः-नौः इति देश्यशब्दः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org