________________
४६ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः आबालकालपरिपालितशुद्धशीलं, श्रीवृष्णिमौलिकलितोरुवतंसलीलम् । भावारिमत्तकरिकुम्भकठोरसिंह नेमि विनम्य नवनीर[द]नीलदेहम् ।।१।। [वसन्ततिलका] भव्याङ्गिनो यदिह चित्रतपोभिरुच्चैराराधयन्ति विशदश्रुतपञ्चमीषु । संसारसागरसमुत्तरणैकपोतं, जैनं वचस्तदहमादरतः प्रणौमि ॥२॥ . सच्चित्तसारसरसेषु जिनेन्द्रचन्द्रः, पादप्रसादमपसादमवाप्य शीघ्रम् ।
औचित्यमेतदिह यद्गुणनायकानां, सिद्धान्तसत्कुवलयं लभते विकाशम् ।।३।। संसारघोरगहनेऽतिविसर्पदर्पकन्दर्पसर्पविषवेगविकारभाजाम् । भव्याङ्गिनां नयति निर्विषतां यदीया, सज्जाङ्गुलीव किल रम्यतराक्षराली ॥४॥ श्यामान्धकारविधुरं जगदेतदुच्चैः, प्रद्योतनद्युतिततिः प्रकटीकरोतु । अश्रान्तमान्तरतमोपहतिप्रवीणा, सैका परं तु पदपद्धतिरेव यस्य ॥५॥ दोषागमेन विधुराणि जनाम्बुजानि, योऽलम्भयद् विलसदुज्ज्वलशीललक्ष्मीम् । दुःखादितेषु च समास्वसनप्रदानात्, मित्राभिधेययुगलं किल नाऽतिशेते ॥६।। भव्याङ्गिनां रुचिरमानसपत्तनान्तबलायितं प्रबलमोहनृपस्य तावत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org