SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ४०. श्रीनेमिनाथस्तोत्रसङ्ग्रहः दीप्रप्रदीपकलिका इव यत्र नित्यं, नानाविधौषधिगणा रजनौ ज्वलन्ति । घण्टाक्षराऽऽतपनिवारिशिलैकशाली, श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥१७|| सत्पल्लवैर्निवसितेव सितप्रसूनैलिप्तेव सत्फलभरैः समलङ्कृतेव। यस्मिन् मनांसि रमयत्यनिशं वनश्रीः, श्रीमानसौ विजयतां गिरिरुज्जयन्तः ।।१८।। यस्मिन् सहस्रवनलक्षवनद्रुमौघपुंस्कोकिलप्रियतमा कलनाददम्भात् । सुस्वागतानि किल पृच्छति भव्यलोकं, श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥१९|| स्नानं विलेपनमुदारतरा च पूजा, दानं तपःप्रभृतिशेषमशेषकृत्यम् । जायेत यत्र विहितं शिवसौख्यहेतोः, श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥२०॥ इत्येवंविध रैवताचलशिरःशृङ्गारचूडामणिविश्वाम्भोजविकाशवासरमणिस्त्रैलोक्यचिन्तामणिः । सेव्यः सैष तमोवितानविजये चन्द्रोपमैः शूरभिः(?), श्रीनेमिर्जगतां विभुर्भवतु मे दुष्टाष्टकर्मच्छिदे ॥२१॥ [शार्दूल०]. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy