________________
श्रीरैवताचलचैत्यपरिपाटीस्तवनम् • ३९
यत्रावतार इव सर्वसरस्वतीनां, रम्यं सदैव सलिलैरमृतो [प] मानैः । कुण्डं विराजति गजेन्द्रपदाभिधानं, श्रीमानसौ विजयतां गिरिरुज्जयन्तः || ११||
अष्टापदप्रभृतिकीर्त्तनकीर्त्तनीये, श्रीवस्तुपालसचिवाधिपतेर्विहारे ।
यत्र स्वयं निवसति प्रथमो जिनेन्द्रः, श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥१२॥ सिंहासना वरसुवर्णसुवर्णदेहा, पुष्पन्धयी पदसरोरुहि नेमभर्तुः । यत्राम्बिका वितनुते किल सङ्घरक्षां, श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥ १३॥
शैवेयदेवपदपङ्कजसङ्गचङ्गं,
शृङ्गं विलोक्य भविका अवलोकनाख्यं । यस्मिन्निजानि नयनानि कृतार्थयन्ति, श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥ १४ ॥ श्रीजाम्बवत्युदरकन्दरसिंहपोत:, शाम्बस्तप:शितनखैर्भवकुम्भिकुम्भम् । यस्मिन् बभञ्ज क़िल मौक्तिकलाभहेतो:, श्रीमानसौ विजयतां गिरिरुज्जयन्तः || १५ ॥ श्रीरुक्मिणीसुतमुनिः शिखरे यदीये, तेपे तपांसि सुभगं करुणाऽतिकामम् । सम्बन्धबद्धहृदयः किल सिद्धिवध्वा, श्रीमानसौ विजयतां गिरिरुज्जयन्तः ||१६|
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org