________________
३८. श्रीनेमिनाथस्तोत्रसङ्ग्रहः यत्राङ्गिभिः कृतनुतिः प्रभुपादुकेयं, सन्तक्ष्य पापपटलं नखकोटिटकैः । पुण्यानि भालफलकेषु समुत्करोति, श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥५॥ त्रैलोक्यलोकशुचिलोचनलोभनीये, नेमीश्वरे जिनवरे किल यत्र दृष्टे । चेतः प्रसीदति विषीदति दु:खराशिः, . श्रीमानसौ विजयतां गिरिरुज्जयन्तः ।।६।। प्राज्यं जरत्तृणमिव प्रविहाय राज्यं, बन्धून् विधूय विधुरानपि यत्र नेमिः । दीक्षां श्रितस्त्रिभुवनाभयदानदक्षां, श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥७।। नेमीशितुर्भगवतोऽजनि यत्र लोकाऽऽलोकाविलोकनकलाकलितस्वभावम् । ज्योतिर्जगज्जनवनीनवनीरदाऽऽभं, श्रीमानसौ विजयतां गिरिरुज्जयन्तः ।।८।। षट्त्रिंशतास्यधिकया मुनिपञ्चशंत्या, नेमिनिषण्णवपुषाऽनशितश्च मासम् । यस्मिन् जगाम शिवमद्भुतधामधाम, श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥९॥ श्रीजैनबिम्बभृतवासवमण्डपस्थाः, श्रीनेमिमज्जनमहोत्सवबद्धकक्षाः । यस्मिन् सहस्रनयना भविनो भवन्ति, श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥१०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org