________________
३२ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः
त्रिदशपुरपुरन्ध्रीरूपरेखाविषादक्षमलवणिमलीलां भोजपुत्रीं विहाय । कलितविरतिभावः पावयामास नेमे ! निजचरणसरोजैस्तं भवान् रैवताद्रिम् ॥१२॥ सितकरकेराकारा कीर्त्तिर्न मे हृदयप्रिया सकलललनालीलालापा विलापसमा मताः विपुलवसुधाराज्यं प्राज्यं विपाककटु स्फुटं तदलमिमकैर्नेमे ! भूयस्त्वमेव विभुर्मम || १३|| [हरिणी] इति विलसदनङ्गसङ्गभङ्गप्रगुणसमाधिधरो मयाऽभिनूतः । स्फुरदतिशयचारुरत्न रत्नाकर' गुरुरेष शिवङ्करोऽस्तु नेमिः ||१४|| [पुष्पिताग्रा ]
***
२. प्रतौ 'सिरकर०' इति पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org