SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ रैवताद्रिमण्डनश्रीनेमिनाथस्तवनम् • ३१ दृष्टेऽधुना तव पदाम्बुरुहे पलायाञ्चक्रेऽन्तरङ्गरिपुचक्रमिदं हृदो मे । विश्वं विवस्वति विभासयति प्रभाभिः को वान्धकारनिकरस्य किलावकाशः ? ॥६॥ कल्पद्रुमः प्रकुरुतां किमभीष्टजातं? कस्याऽस्तु वा सुरमणी रमणीय एषः ? | कृत्वाऽथ किं भवतु कामदुघाऽप्यमोघा ? सङ्कल्पिताऽधिकफलं समवाप्य नेमिम् ।।७।। मायानिशि स्फुरितमोहमहाप्रमीलासम्मीलितं नयनमान्तरमेतदीश ! । विश्वत्रयप्रकटनाय पटीयसीभिर्गोभिः प्रबोधकलितं यदि तावकीभिः ॥८॥ भालं विशालमिदमिन्दुकलाऽभिरामं किं वर्ण्यते त्रिदशवन्दितपादपद्म ! । नैवं व्ययं लवणिमाऽमृतमेति यत्र पेपीयमानमपि नेत्रचकोरवृन्दैः ॥९॥ काऽपि प्रभो ! तव विशालविलोचनानां छायाकपोलयुगलं कमनीयकान्ति । कर्णद्वयं त्रिजगतीकमलाविलासदोलाकलं बत न कस्य मुदं दधाति ॥१०॥ कलिमलकलुषानां प्राणिनां पावनी ते विमलरुचिजलौघैः पूरिता मूतिरेषा । अमरसरिदिवाऽलं पापजम्बालजालं विदलयति विशालं देव ! मे सर्वकालम् ॥११॥ [मालिनी] Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy