________________
३० • श्रीनेमिनाथस्तोत्रसङ्ग्रहः
રૈવતાદ્રિને પાવન કર્યો. (૧૨) એવું દર્શાવીને સ્તોત્રનું સમાપન કરતા अविश्री 'नेमे ! भूयस्त्वमेव विभुर्मम' भांगशी उरी छे.
श्रीरैवताद्रिकमलापृथुकण्ठपीठशृङ्गारहारतुलनां कलयन्ति यस्य ।
स्फारस्फुरत्क्रमनखद्युतयोऽतिदीप्राः,
श्रीनेमिनं जिनवरं तमहं स्तवीमि ॥१॥ [ वसन्ततिलका]
नेमे ! तव स्तवनमुज्ज्वलकेवलात्मरूपस्य गीष्पतिसमोऽपि न कर्तुमीशः । अन्तस्तथाऽपि परितोऽपि हि विस्फुरन्तीं लोलां करोति तव भक्तिरियं विलोलाम् ॥२॥ काले कलौ किल निदाघतुलां दधाने निःशेषसंवरपदेषु तनूभवत्सु । रोचिर्जलैः सुविमलैः सरसीयतेऽसौ देव ! त्वदंहियुगलं भवतापभेदि ||३|| येनोच्छदच्छविपदं विपदन्तकारि नेमे ! विभो ! शुभवतो भवतोंऽह्रियुग्मम् । यायादसौ नरमणी रमणीयभावं केषामहो सुमनसां मनसां न लोके ? ||४|| रागादिविद्रुतमना नहि ना त्वदीयं द्रष्टुं स्वरूपममलं तदलम्भविष्णुः । किं नीलिकागलितलोचनशक्तिरुच्चैः पश्येत् कदापि विलसत् शशलक्ष्मबिम्बम् ||५||
१. प्रतौ 'युगली' इति पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org