________________
महार्थगम्भीरस्तवः • १५
किं तेन तपसा तेन श्रुतेन विनयेन वा ।
!
जपेन तेन किं येन, नाथ ! त्वं नोपलक्ष्यसे ३३ ॥२७॥ पापकर्मकृतोन्माथ३४, नाथ ! तत् कुरु येन मे । स्वल्पा भवन्ति सङ्कल्पा, विषयग्रहगोचराः ॥२८॥ परानन्दपदे मेऽस्तु निमग्नस्य जगत्प्रभो ! | वेद्य-वेदकभेदैकशून्यता त्वत्प्रसादतः ॥२९॥ नार्थयेऽन्यद्विभो ! किञ्चिद्, याचे त्वामेतदेव हि । समुल्लसतु मच्चित्ते, त्वत्प्रसादात् परं महः ||३०|| श्रोत्र पेयामृतं स्तोत्रमेतद्यः सुकृती पठेत् । त्रिकालं यादवाऽधीश !, स भवेत् त्वत्स्वरूपवित् ॥३१॥ करोत्करो३५ नभोरत्नचन्द्रसूरीह दीप्यते ।
यावत् तावत् क्षितौ३६ देव !, संस्तवस्तव नन्दतात् ॥३२॥ इति महार्थगम्भीरस्तवेन श्रीनेमिं स्तुत्वा । पञ्चाङ्गस्पृष्टभूतलश्चक्रवर्ती पुनः प्रणति स्म ||३३३७ || [आर्या ]
३३. ‘०लक्ष्यसि’ को . । ३४. ' ० कृतो नाश: ' को. । ३५. 'करोत्करौ' - को. । ३६. 'कृतो' - पा. । ३७. इदं पद्यं 'को' प्रतौ एव दृश्यते ।
Jain Education International
-
For Personal & Private Use Only
www.jainelibrary.org