________________
१४. श्रीनेमिनाथस्तोत्रसङ्ग्रहः नानाध्यानैः पुरा देव !, येन ध्यातोऽसि चेतसा । क्रमेणात्मानमविश्य२३, तन्मारयसि चारु तत् ॥१७॥ निराकारं निराधारं, निराहारं निरञ्जनम् । विदन्ति२४ परमार्थेन, देव ! त्वां तत्त्ववेदिनः ॥१८॥ अजिह्म:२५ परमब्रह्ममयस्तेजश्चयस् तव । किं सर्वगोऽपि मे मोहतमो हरति न प्रभो ! ॥१९॥ भवग्रीष्मभवस्तापव्यापः स्याद् देव ! देहिनाम् । .. तदा यदा चिदानन्दचन्द्रस् त्वमसि दूरग:२६ ॥२०॥ शून्यता स्वपदे देव !२७ जागरे२८ऽनल्पकल्पना । एतद् द्वयातिगं किञ्चिद्, वदन्ति त्वत्पदं बुधाः ।।२१।। त्वयि ध्येये व्रजेद् ध्याता, ध्यानं च विलयं विभो !२९ । अतो बहिर्मुखा लोका, विमुखास्तव चिन्तने ॥२२॥ ये तु तत्वविदो देव !, कल्पनातीतचेतसः । ध्येयादित्रिकभेदांस्ते, न विन्दन्ते मनागपि ॥२३॥ इदं ध्येयमिदं ध्यानमहं ध्यातेति धीर्भवेत् । तेषां येषामुदासीनपदासीनं, मनो३० न हि ॥२४|| यस्त्यक्तकर्मनिःसङ्गो, नित्यतृप्तो निरञ्जनः । सदानन्दमय:३१ स त्वं, त्वं स एवेति मन्मति:३२ ॥२५॥ विपक्षे च स्वपक्षे च, मूर्खे चैव विचक्षणे । दु:खे सुखे समस्वान्ता, नाथ ! त्वद्वेदिनो जनाः ॥२६।।
२३. '०वश्य' - को.। २४. 'वदन्ति' - को. । २५. 'अचिन्त्य' - को. । २६. 'पूरगाः' - ला. । २७. 'तावज्' - का. । २८. 'जागरो' - को. । २९. 'द्रतम्' - को. । ३०. 'तमो' - को. । ३१. 'मयं' - ला. । ३२. 'मे मतिः' - को.।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org