________________
श्रीनेमिनाथस्तवः ०७ कर्माऽनलध्मातमदात्मलोहगोलं ज्वलन्तं कृपया कृपालो ! । प्रसीद निर्वापय वाग्द्विपञ्चाशत्काख्यसच्चन्दनशीकरेण ॥६।। उद्धामधाम्नोत्तमयौवनाख्यग्रामे वसन्तं त्रिजगत्प्रभो ! माम् । उपद्रवन्मन्मथपाद्रिकोयमनार्यवर्यः कथमेष वार्यः ॥७॥ मध्ये भवाम्भोनिधिमार्गमाविश्चकार चित्रं चणेन गम्यम् । भव्याङ्गिनो येन सुखेन यान्ति, सौख्याकरे मोक्षपुरेऽधिवस्तुम् ॥८॥ कृशानि कर्माणि करोति पुष्टान्यसौ ममात्मा यदनात्मनीनः । पञ्चाननं काननवासिनं रुजा ग्रस्तं प्रशस्तं कुरुते तदुच्चैः ॥९॥ अस्मादृशान् मोचय मोहसक्तान् संसारकारागृहतः स्थितिज्ञः । सम्प्रत्यथैतस्य जगत्रयस्य, साम्राज्यवान् नाथ ! यतोऽभवस्त्वम् ।।१०|| साग्रे च गव्यूतिशतद्वये ते, हन्ता भवेत् कस्य च नोऽपि क्रोधात् । हन्ये कषायैर्विषयैस्तथाहं, नतं प्रभो ! त्वं किमुपेक्षसे माम् ।।११।। अहं सुपुण्यद्रविणानुमानतः पराय॑मध्याधमजन्मवेश्मसु । उदास संसारपुरे पुरा प्रभो !, महोदयाप्तिर्न परं ममाभवत् ।।१२।। यावद्भवाब्धौ जलजन्तुतन्तुश्चित्तद्विपं न क्षिपति स्मरो मे । त्राणाय तावज्जलकान्तरत्नदेश्यं प्रभो ! तस्य दिशोपदेशम् ॥१३॥ निश्शेषदोषव्यतिषङ्गमुक्ते, ये नाथ ! दोषं त्वयि पोषयन्ति । कर्पूपूरे कुमुदेन्दुगौरे, ते कालिमानं कुदृशो दिशन्ति ॥१४॥ समूलमुन्मूलितबोधपङ्कजं, विपुण्यहंसं मम नाथ मानसम् । करोत्यखर्वः स्मरवारिकुञ्जरः कथं विमथ्यस्तदसौ सुदुर्द्धरः ? ॥१५।। अपारसंसारमहार्णवान्तरे, श्रेयःस्वमादाय कषायतस्करैः । नृजन्मपोतादवतार्य निष्कृपैः, प्रक्षिप्यमाणं जिन ! रक्ष रक्ष माम् ।।१६।।
२. 'बावना' इति भाषायाम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org