________________
२. श्रीनेमिनाथस्तोत्रसङ्ग्रहः આમ, આ સ્તોત્ર વાચકના હૃદયને પ્રભુભક્તિમાં તરબોળ કરવા માટે સમર્થ આલંબનરૂપ છે.
अन्त्य पद्यमा प्रयुक्त विनय' ५६ तान नाम सूयन ४२तुं खोई
3.
लोकोत्तरचरित्रौघ !, उज्जयन्तावतंसक !। विज्ञ ! विज्ञप्तिमेतां मे, श्रीमन्नेमेऽवधारय ॥१॥ [अनुष्टुभ्] वाचस्पतिरपि स्तोतुं, नालं त्वां कल्पकोटिभिः । यत्त्वहं स्तोतुमिच्छुस्तज्जात्यन्धाऽपाङ्गवीक्षणम् ॥२॥ तथापि श्रद्धया मुग्धः, स्तोष्येऽहं त्वत्प्रसत्तये । पित्रोः प्रीत्यै न कि बालस्याऽव्यक्तमपि जल्पितम् ? ॥३॥ सार्व ! सर्वात्मना सर्वे, ते गुणास्त्वां समाश्रिताः । परे परेषां देवत्वं, रोपयन्ति यदंशतः ॥४॥ अर्हत्वात् सर्वपूजानां, कर्मारिहननादपि । पुनर्भवाप्ररोहात् त्वमर्हन्नित्यार्हतैस्तुतः ॥५।। मुनिनाथो महाबोधिस्त्रिकालज्ञो जितेन्द्रियः । बौद्धैर्बुद्ध इति ज्ञात्वा, त्वमेवाराध्यसे जिन ! ||६|| रजस्तमोविनिर्मुक्तो नित्यः सर्वग-चिन्मयः । निःक्रियः सुखभोक्ता च, साङ्ख्यः ख्यातः पुमान् भवान् ॥७॥ प्राज्ञै यो महाभ्यासात् परोपनिषदात्मकः । त्वं वेदाख्यो जेमनीयैर्धर्मजिज्ञासुभिर्मतः ।।८।। सर्वंसहोप्यनाधारः, पावकः सर्वतोमुखः । महाबलोऽसि चार्वाकैर्मन्यसे भूतमानिभिः ॥९।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org