________________
रैवतशैलमौलिश्रीनेमिजिनस्तवनम् • ३ भवान्तकारी लोकेशः, परमेष्ठी चतुर्मुखः । अजिमो ब्रह्मवान् ब्रह्मा, बाह्मणैस्त्वं निषेव्यसे ॥१०॥ दाशार्हः पुण्डरीकाख्यो, हृषीकेशो यदूत्तमः । त्वमेव सेव्यसे देवः, विष्णुः परमवैष्णवैः ॥११॥ गणनाथोऽम्बिकाराध्यो, गिरीशः सुमहाव्रती । सेव्यसे त्वं शिवः शैवैः, कामं कामजयीश्वरः ॥१२।। जगच्चक्षुर्जगत्कर्मसाक्षी भास्वान् विभावसुः । सूर्यभक्तैस्त्वमेवेन !, पूज्यसे तेजसांनिधिः ।।१३।। सप्तरज्जुमिताभोर्ध्वमलक्षाकारमाश्रितः । आराध्यसे लक्षभक्तैस्त्वं गोस्वामीतिवादिभिः ॥१४॥ जिह्वाग्रे तव वाग्देवी, कमला लोचनाञ्चले । ग्रहा नवापि पादान्ते, किङ्कराश्च सुरासुराः ॥१५।। तत्ववृत्त्या तत्त्वमेव, देवलक्षणलक्षितः । सर्वदर्शनिभिर्मान्यो, नान्यो विश्वत्रये ततः ॥१६।। मृगराजः सिंह एव, सूर्य एव दिवाकरः । त्वमेव देवदेवोऽसि, नापरः परमेश्वरः ॥१७।। तप्तं जप्तं हुतं दत्तं, तेन सर्वं व्रतं कृतम् । येन त्वमेकचित्तेन, ध्यातः क्षणमपि प्रभो ! ॥१८॥ ते धन्या वन्दनीयास्ते, तेषां जन्म फलेग्रहि । येषां मनोवच:कायैः, सेवाहेवाकिता त्वयि ॥१९॥ अहं तु हन्त रागान्धो, ग्रस्तो मोहमहाऽहिना । क्रोधाद्यैर्बाधितो बाढं, कामं कामेन दामितः ॥२०॥१
१. तुलना-'दग्धोऽग्निना०' रत्नाकरपञ्चविंशिका-५ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org