________________
परिशिष्ट - 'क' • ३११ एकविंशभवान्तेषु बहुसंसारेण एकं भवं गणयित्वा सप्तविंशतिभवान् समर्थयते । केचित् श्रीआवश्यकबृहद्वृत्तौ तु भगवत इतीयं ततो भगवान् इति गणनैव न कृता, क्वचित् क्वचिदावश्यकजीर्णचुर्णी व्यक्तव्या भगवत्भव-गणनायां देवानन्दोदराऽवतारः षड्विंशो भवः श्रीत्रिशलागर्भसम्भूतः श्रीवीरः सप्तविंशो भवः । इति प्रसिद्धया पुनर्भवाः सप्तविंशतिरेवं
'ग्रामेश १ स्त्रिदशो २ मरीचि ३ रमरो ४ षोढा परिवाट्-सुरः, १६ संसारे बहु विश्वभूति १७ रमरो १८ नारायणो १९ नारक: २० । सिंहो २१ नेयिको २२ भवेषु बहुशश्चक्री २३ सुरो २४ नन्दनः २५, श्रीपुष्पोत्तरनिर्जरो २६ ऽवतु भवान् वीर २७ स्त्रिलोकी गुरुः ॥१॥'
[शार्दूल०] इति, तत्वं पुनर्बहुश्रुता अवन्तीति गाथाद्वयार्थः ॥४३॥ अथोपसंहारतः प्रार्थनापूर्वं निजनामगर्भं समाप्तिकाव्यमाहुःएवं वीरजिणेसणेसर ! तुमं मोहंधविद्धंसणं,
भव्वंभोरुहबोहसोहजणयं दोसायरुच्छेयणं । . थोउं जं कुसलाणुबंधिकुसलं पत्तो म्हि किंची तउ, जायज्जा जिण ! वल्लहो मह सया पायप्पणामो तुह ॥४४॥ .
[शार्दूल०] . एवममुना-पूर्वोक्त प्रकारेण, हे वीरजिनेशदिनेश ! हे श्रीमद्वर्धमानजिनसूर्य ! अन्धयतीत्यन्धोऽन्धकार: मोह एव अन्धो मोहान्धस्तस्य विध्वंसनं, तथा भव्या एवाम्भोरुहाणि तेषां बोधेन-प्रतिबोधेन-विकासेन च शोभा तस्या जनकं-कारकं, तथा दोषाकरस्य दूषणनिधानस्य चन्द्रस्य चोच्छेदनं-निरासकं त्वां स्तुत्वा यत् किञ्चित् पुण्यानुबन्धिपुण्यं प्राप्तोऽस्मि-अर्जितवान् ततस्तस्मात् पुण्यानुबन्धिपुण्यात् हे जिन ! तव पदप्रणामो मम सदा वल्लभो जायतामित्यत्र शार्दूलविक्रीडितं छन्दः ॥ श्रीजिनवल्लभ इति कविनामेति वृत्तार्थः ॥४४॥
श्रीखरतरगच्छेशश्रीजिनभद्रसूरिशिष्याणाम् । जीरापल्लीपार्श्वप्रभुलब्धवरप्रसादानाम् ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org