________________
३१०. श्रीनेमिनाथस्तोत्रसङ्ग्रहः पाउवगमं भणियं समविसमे पायव व्व जह पडिओ। . . . नवरं परप्पओगा कंपिज्ज जहा फलतरु व्व ॥२॥' [मरण०-४२६-४२७]
अत्र 'निप्पडिक्कम्मो'त्ति-नि:परिकर्मा स्थाननिषीदन-त्वग्वर्तनादिपरिकर्मरहितः । 'निहारिं'त्ति गिरिकन्दरादौ यदङ्गीकर्तुं ग्रामादेबिहिः निर्गमनं यत्राऽस्ति तन्निर्हारितदन्यदानिर्दारि इति । कदा? क्व भगवान् सिद्ध ? इत्याहुः-पार्श्वनाथात् वर्षशतद्वये साढे (२५०) गते-समतिक्रान्ते सति ॥४२॥
___ कार्तिकामावास्यां, गोसे-प्रभाते, षष्ठेन तपसा, स्वातिनक्षत्रे, एक एवएकत्वं च द्रव्यतोऽद्वितीयत्वात्-न पुनर्यथा ऋषभादयो दशसहस्रादिभिः साधुभिः सहिता मोक्षं जग्मुस्तथेति, भावतश्चैकत्वं रागादिरहितत्वात् । द्वासप्ततिवर्षायुः, तत्र त्रिंशद्वर्षाणि गृहस्थपर्यायः द्वादशवर्षाणि त्रयोदशपक्षाऽधिकानि छद्मस्थपर्यायः त्रयोदशपक्षोनत्रिंशद्वर्षाणि केवलिपर्यायः, छद्मस्थपर्यायकेवलिपर्यायमीलने द्विचत्वारिंशद्वर्षाणि दीक्षापर्यायः, सर्वमीलने द्वासप्ततिवर्षाणि सर्वायुः, त्वं शिवं प्राप्तः । एकत्रिंशद्गुणसमृद्धः सिद्धो बभूव ते पुनरेकत्रिंशसिद्धगुणाः श्रुते एवं - . ___'से न दीहे, न वट्टे, न तंसे, न चउरंसे, न परिमंडले, न किण्हे, न नीले, न लोहिए, न हालिद्दे, न सुकिले, न सुरहिगंधे, न असुरहिगंधे, न तित्ते, न कडुए, न कसाए, न अंबिले, न महुरे, न कडे, न मउए, न गुरुए, न लहुए, न सीए, न उण्हे, न निटे, न लुखे, न काए, न संगे, न रुहे, न इत्थी, न पुरिसे, न नपुंसे।' अत्र सज्यते कर्मणा सम्बध्यतेऽनेनेति सङ्गो रागः । अत्र संस्थान-वर्ण-रसाः प्रत्येकं पञ्चसङ्ख्या इति पञ्चदश (१५), द्वौ गन्धौ (२), अष्ट स्पर्शाः (८), वेदत्रिकं (३), कायोऽभिष्वङ्गो जन्म चेति त्रिकं (३) इति सर्वमीलने एकत्रिंशत् सिद्धगुणा इति। ___यस्यां च रात्रौ भगवान् सिद्धस्तस्यामष्टादशभिर्गणभूपालैः ‘गए से भावुज्जोए दव्वुज्जोयं करिस्सामो' इति विचिन्त्य रत्नदीपकैरुद्योतश्चक्रे तदाद्येव लोके प्रतिवर्षं दीपोत्सवोऽभवदित्यलं प्रसङ्गेन । इति व्याख्यातं श्रीआवश्यकाभिप्रायेण भगवच्चरित्रम् ।
परमेवं षट्विंशतिरेव भवाः स्युः तथा च सति पञ्चम-त्रयोदश-पञ्चदश
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org