________________
३१२ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः श्रीग्यासुद्दीनसाहेमहासभालब्धवादिविजयानाम् । श्रीसिद्धान्तरुचिमहोपाध्यायानां विनेयेन ॥२॥ साधुसोमगणीशेनाक्लेशेनार्थप्रबोधिनी । श्रीवीरचरिते चक्रे वृत्तिश्चित्तप्रमोदिनी ॥३॥ मतिमान्द्यान्मोहाद् वा, प्रमादतो चाऽत्र किञ्चनाऽपि मया। . यत्सूत्रितमुत्सूत्रं, तन्मिथ्यादुःकृतं मेऽस्तु ॥४॥ . अत्राऽनागमिकं युक्तिरिक्तं वा यत्पदं क्वचित् । विद्वद्भिरभितः सद्भिस्तच्छोध्यं शुद्धबुद्धिभिः ॥५॥ जिनवल्लभसूरीन्द्रसूक्तिमौक्तिकपङ्कतयः । दर्शितार्थाः सुदृष्टीनां सुखग्राह्या भवन्त्विति ॥६॥ चार्वी चरित्रपञ्चकवृत्तिर्विहिता नवैकतिथिवर्षे । हर्षेण महर्षिगणैः प्रवाच्यमाना चिरं जयतु ॥७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org