________________
परिशिष्ट - 'क' • ३०५ श्रुतकेवलिनोः प्रज्ञापनायां तुल्यत्वादिति । वादिनां सदेवमनुजाऽसुरायां सभायामप्यपराजितानां चत्वारि शतानि । मनःपर्ययिनां विपुलमतीनां पञ्चशतानि, तत्र विपुल-बहुविधविशेषणोपेतमन्यमानवस्तुग्राहित्वेन विस्तीर्णा मतिः मनःपर्यायज्ञानं येषां ते विपुलमतयः, सम्पूर्णे मनुष्ये क्षेत्रे व्यवस्थितानां संज्ञिनां मनोवर्तिसर्वविशेषोपेतवस्तुग्राहिणः, ऋजुमतयस्तु सामान्यत एवार्धतृतीयाङ्गुलन्यूने मनुजक्षेत्रे व्यवस्थितानां संज्ञिनां मनोमात्रग्राहिकाः न तैरिहाधिकार इति । सप्तशतानि केवलिनः । वैक्रियलब्धिवन्तस्तावन्तः सप्तशतानीत्यर्थः । तवाभवन्निति गम्यमिति गाथार्थः ॥३५॥
पंचजमधम्मदेसग इक्कारस गणहरा नव गणा ते । तेरस ओहिजिणसया अट्ठसयाणुत्तर गईणं ॥३६॥
व्याख्या - पञ्च यमा-व्रतानि, प्राणातिपात-मृषावादा-ऽदत्तादान-मैथुनपरिग्रहविरमणलक्षानि यत्र चासौ धर्मस्तं दिशतीति पञ्चयमधर्मदेशकस्तत्सम्बोधनं हे पञ्चयमधर्मदेशक! ते तव, एकादशगणधरा गौतमाद्याः । नव गणा-एकवाचनिकाः साधुसङ्घाताः अभवन् । त्रयोदशशतान्यवधिजिनानां-अवधिज्ञानिनामित्यर्थः । अनुत्तरविमानेषु गतिर्गमनं येषां तेऽनुत्तरगतयस्तेषां अनुत्तरगतीनामष्टशतानि ते चाऽऽगामिभवभाविसिद्धिगतयो ज्ञेयाः । अभवन्नितिक्रियायोगः सर्वत्र ज्ञेय इति गाथार्थः ॥३६।। अथ भगवतो साधारणगुणस्तुतिमाहुः
पंचंतराय-हासाच्छक्क-मिच्छत्तमविरइमनाणं । अट्ठरसदोसा: राग-दोस-निद्दा य मयणो य ॥३७॥ इय नट्ठारसदोसदाह ! चउतीसअइसयसणाह ! । पणतीसबुद्धनयणाइसेसअत्थाह ! जय नाह ! ॥३८॥ युग्मम् ।।
पञ्चान्तरायाः -दान-लाभ-वीर्य-भोगोपभोगगाः, हास्यादिषट्कं हास्यरत्यरति-शोक-भय-जुगुप्सालक्षणं, मिथ्यात्वं, अविरतिः, अज्ञानं, राग-द्वेषनिद्राश्च मदनश्चेत्यष्टादशदोषाः ॥३७॥ इति पूर्वोक्तप्रकाराणां नष्टो विलयङ्गतोऽष्टादशदोषाणां दाघ:-सन्तापो यस्य स तथा तस्य सम्बोधनं हे नष्टाष्टादशदोषदाघ ! हे चतुस्त्रिंशदतिशयसंयुक्त ! यद्यप्यनन्तातिशयो भगवतस्तथापीह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org