________________
३०४ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः अथ चतुर्विधसङ्घस्थापनामाहुःसुरकयउसरणे ठाउमीस ! कप्पो त्ति काउ धम्मकह। धुवमच्छरिय जाणिय वरचरणअभावियं परिसं ॥३२॥ बहु तिसयकोडि सहिओ निसि बारस जोयणेहिं पावपुरि । गंतु महसेणवणे चउविहतित्थं पयट्टित्थो ॥३३॥ युग्मम् ।।
हे ईश! स्वामिन् ! त्वं सुरकृतसमवरसणे आगमोक्तस्वरूपे स्थित्वा समुपविश्य कल्पस्थितिरिति हेतोधर्मकथां-धमदेशनां कृत्वा वरचरणाऽभाविर्ता देशविरतिसर्वविरत्याऽभावितां पर्षदां-सभां ध्रुवं आश्चर्यं ज्ञात्वा, न हि तीर्थकृद्देशनानि:फला भवतीति ॥३२॥
बहुभिस्त्रिदशकोटिभिर्देवकोटिभिः सहितो निशायां रात्रौ द्वादशयोजनैः पापापुर्यां गत्वा महासेननाम्नि वने चतुर्विधं तीर्थं साधु-साध्वी-श्रावक-श्राविका-सङ्ख प्रवर्त्तयसि ॥३३॥ अथ तत्सङ्ख्यां व्यञ्जयन्ति- . .
साहु सहस्सा चउदस, छत्तीसं साहुणी सहस्साणि । से गुणसिट्ठ सहस्सं लक्खं सड्ढा दुगुणसड्डी ॥३४॥
स्वामिहस्तदीक्षितानां साधूनां श्रीइन्द्रभूतिप्रमुखाणां चतुर्दशसहस्राणि । साध्वीनां आर्यचन्दनाप्रभृतीनां षट्त्रिंशत्सहस्राणि । तथा भगवत्प्रतिबोधिताः श्राद्धाः शङ्ख-शतकप्रमुखा सहैकोनषष्टिसहस्रैर्वर्त्तते यत् तु सैकोनषष्टिसहस्रं लक्षमेकं (१५९०००) श्राविकाः सुलसा-रेवतीप्रभृतये द्विगुणास्त्रीणि लक्षाणि साष्टादशसहस्राणि (३१८०००) तवाऽभवन्नित्यध्याहार्य सर्वत्र योज्यमिति गाथार्थः ॥३४॥
उक्तसङ्ख्येष्वेव साधुषु लब्धिविशेषाऽऽश्रितां सङ्ख्यां ख्यापयन्तिचउदसपुव्वी-वाई-मणपज्जवणो ति-चउ-पंचसया । सत्तसया केवलिणो, विउव्विणो तत्तिया तुज्झ ॥३५॥
चतुर्दशपूर्विणो वादिनो मनःपर्यविनश्च यथासङ्ख्यं त्रीणि-चत्वारिपञ्चाशतानि । अयं भाव:-चतुर्दशपूर्वीणां त्रीणि शतानि, ते च जिन इवाऽवितथं सद्भूतार्थं व्याकुर्वन्तः सङ्ख्यातीतानपि भवान् प्रज्ञापयन्ति के वलि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org