________________
परिशिष्ट - 'क'. ३०३ सर्वं च तप:कर्माऽपानकं आसीत् । इत्यत्र वृत्तिकृत्तोक्तं-क्षीरादिद्रवाहारभोजनकाललभ्यव्यतिरेकेण भगवता पानकपरिभोगो नाऽऽसेवित इत्यर्थः ।' एतद् टिप्पनकारेण व्याख्यातं-'क्षीरादिश्चासौ द्रवाहारश्च तस्या भोजनकालस्तत्र लभ्यंप्राप्तं-गृहीतं यत्पानकं तद्व्यतिरेकेण नाऽन्यथा पानकभोगं कृतवान् भगवानित्यर्थः । यदा लेपकृदाहारसंसृष्टं कदिकमभूत् तदा पानकं जग्राह नाऽन्यदेति भावः ।' अन्ये त्वाहु:-क्षीरादिद्रवाहारश्चाऽसौ भोजनकालश्च तद्व्यतिरेकेण । इदमुक्तं भवति च्छद्मस्थकाले क्षीरादिद्रवाहार एव पानकस्थानेऽभूदिति । अनु च श्रीआचाराङ्गेऽष्टमेऽध्ययने चतुर्थोद्देशके पुनरर्धमासादिषु भगवतः पानकपरिभोगो नासीत् । न तु सर्वस्मिन्नपि छद्मस्थपर्याये सर्वथा पानकं नाऽसीत् इत्युक्त तथाहि - 'अपि इत्थ एगया भयवं अधमासं अदुवा मासं पि अविसाहिए दुवे मासा छप्पिमासे अदुवा अपि च्छित्तारा उपरायं अपडिन्ने अन्नगिलायमेगया भुंजे' इति । पानमप्यर्धमासं अथवा मासं न पीतवान् मासद्वयमपि साधिकं अथवा षडपि मासान् साधिकान् भगवान् पानकमपीत्वाऽपि रात्रोपरात्रमित्यहन्निशं विहृतवानिति । किंभूतो प्रतिज्ञः ? पानाभ्युपगमरहित इत्यर्थः । तथा-अन्नगिलायन्ति पर्युषितं तदेकदा कदाचित् भुक्तवानिति तत्वम् पुनः पूज्या विदुः । इत्यलं प्रसङ्गेन प्रकृतं प्रश्रूयते । तेषां त्रयोदशपक्षाधिकद्वादशवर्षाणामवसाने प्रान्ते ते तव जम्भिकानगर्या बहि: ऋजुवालिकानद्यास्तीरे श्यामगृहपतिक्षेत्रे शालनाम्न: तरोस्तले वैशाखशुक्लदशम्याः प्रहरत्रिके व्यतीते षष्ठेन तपसा उत्कटिकाऽऽसनस्थस्य असहायमसमानं सम्पूर्ण शुद्धमनन्तं वा प्रस्तावात् ज्ञानं केवलज्ञानं पदैकदेशे पदसमुदायोपचारात् आसीत् । तदा च च्छद्यस्थिकज्ञानापगमोऽभूत् । उक्तं च आवश्यके
उप्पन्नम्मि अणंते नटुम्मि य छाउमत्थियनाणे ।
राईए संपत्तो महसेणवणम्मि उज्जाणे ॥१॥ [आवश्यकनियुक्ति-४३९] अन्यत्राऽप्युक्तं
कडविवरागयकिरणा मेहंतरियस्स जह दिणेसस्स।। उक्कडमेहावगमे न हुँति जह तह इमाई पि ॥१॥ इति गाथार्थ ॥३०-३१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org