________________
३०२ . श्रीनेमिनाथस्तोत्रसङ्ग्रहः मुंडियसिरो रोयमाणी अट्ठमभत्तिया जइ दलइस्सइ तउ पारेमि।' इत्यभिग्रहस्तव तथाविधया चन्दनानाम्न्या राजकन्यया पञ्चदिनोनैः षण्मासैः पूर्ण इति कोशाम्ब्यां पञ्चदिनोनषण्मासिकं क्षपणं त्वमकार्षीः । तथा त्वं षष्टक्षपणानां द्वे शते एकोनत्रिंशदधिके (२२९) इति अकार्षीरिति गाथार्थः ॥२९॥ .
अथ निर्णीय पारणककालमानप्रज्ञापनापूर्वं ज्ञानकल्याणकमाहुः-. दिवसूणदुटुसया पारणया पढमवयदिणं चेगं । इय तेरसपक्खाहियबारसवरिसा वसमाणे ते ॥३०॥.. जंभिय बहि रुजुवालियतीर वइसाहसियदसमि पहरतिगे। छटेणुक्कडुवट्ठियस्स, केवलं आसि सालतले ॥३१॥ युग्मम् ॥
व्याख्या - अन्त्य षष्ठस्य पारणं केवलिपर्यायेऽभूदिति । सर्वतपसां पारणानि दिनद्वयोनार्धचतुःशतानि (३४८) प्रथमपारणं चैकमिति दिवसोनार्धचतुःशतानि (३४९) पारणकानि । प्रथमं व्रतदिनं चेकं इति पूर्वोक्त सर्वमीलनेन वर्षाण्येकादश(११) मासा:(६) षड् दिनानि षड्विंशतिः (२६) एतावन्त उपवासाः भवन्ति । पारणा-मासा एकादश (११) दिनान्येकोनविंशतिरिति (१९) त्रयोदशपक्षाधिकद्वादशवर्षाणि भवन्ति । परं नत्वेतानि कथं घटं? तेन भगवतो हि दीक्षा मार्गकृष्णदशम्यां, केवलं वैशाखशुक्लदशम्यामित्यैकदशैव पक्षा समधिकाः स्युरिति । अत्रोच्यते-भगवतः छमस्थपर्याये हि साधिके साढे द्वे युगे तत्राधिकमासाः पञ्च तेषु प्रतिवर्षषट्दिनपातात् सार्की द्वौ मासे तिथिपातस्थाने एकस्य मास: पक्षद्वयपूरणे इति त्रयोदशपक्षाः सार्धो मासस्तु प्रत्युत्कलित । एवं च सति-'छटेणं एगया भुजे, अहवा अट्ठमेणं दसमेणं दुवालसमेणं एगया भुंजेइ इति एगए ति कदाचित्' । इति श्रीआचाराने उपधानश्रुताख्येऽष्टमेऽध्ययने चतुर्थोद्देशके यद्दशमादि तपो भगवता विहितमुक्तं तदुत्कलितदिवसेष्विति सम्भाव्यते । परमत्र श्रीआवश्यकादौ च छद्मस्थपर्यायतपःसङ्कलनायां केनापि कारणेन तद् विवक्षा न कृतेति अपि च भगवतः तपसि पानकाहारपरिभोगोऽपि नाऽभूत् तथा चाऽवश्यके
'बारसवासे अहिए, अ(छ)ट्ठभत्तं जहन्नयं । आसि सव्वं च तवोकम्मं अपाणगं आसि वीरस्स ॥ [आव०-४३८]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org