________________
परिशिष्ट - 'क' • २९३ नारकः सप्तमाऽवन्यां जातः । तत उद्धृत्य सिंहोऽजनि । ततश्चतुर्थं नरकं गतः । तत उद्धृत्य बहून् तिर्यग्-मनुष्यभवान् भ्रान्त इति ।
__ अमुमेवाऽर्थमाह 'संसरिय भवि'त्ति संसृत्य-भ्रान्त्वा, भवे-संसारे नरकादि गतिषु, ततस्त्वं जात:-समुत्पन्न: अपरविदेहे मूकानगर्यां धारिणी पट्टमहादेवी धनञ्जयो राजा तयोः सुतः प्रियमित्रनामा चक्रधरः । किदृगित्याह-त्रुटिताङ्गं सर्वायुर्यस्याऽसौ तथाविधः सन् चतुरशीतिपूर्वलक्षायुरित्यर्थः त्रुटिताङ्गे वर्षमानं यथा
अउणसट्ठिसयसहस्सा सत्तावीसं भवे सहस्साइं। चत्तारिकोडाकोडी तुडीयंगे वरिसमाणमिणं ॥१॥
[गाथासहस्री-२५१/देवेन्द्रनरकेन्द्रप्रकरणम्-१६८] ५९२७०४ शून्य-१५ इत्यङ्काः । पालयित्वा प्रव्रज्यां वर्षकोटिं यावत् । त्वमुत्पन्नो महाशुक्रे कल्पे सर्वार्थनाम्नि प्रधानविमाने परमायुः-सप्तदशसागरोपमायुरित्यर्थः। ।
ततो जम्बूद्वीपभरते भद्रा राज्ञी जितशत्रू राजा, तयोः अङ्गरुहः-पुत्रः, छत्राग्रायां पुर्यां आसीस्त्वं नन्दनो राजा । इति गाथापञ्चकार्थः ॥२-६॥
तस्मिंश्च भवेचउवीसवासलक्खे वसिय गिहे सुगुरुपोट्टिलसमीवे । निक्खमिय वासलक्ख खविय सया मासखमणेहिं ॥७॥ असयं सेविय वीसं ठाणे अज्जिणिय तित्थरनामं । वीसयराऊ जाओ पाणयपुप्फुत्तरे देवो ॥८॥ युग्मम् ।।
चतुर्विंशतिवर्षलक्षान् उषित्वा गृहे सुगुरोः पोट्टिलाचार्यस्य समीपे निष्क्रम्य दीक्षां लात्वा वर्षलक्षं सदा मासक्षपणैः क्षपयित्वाऽतिवाह्य तत्र च
'एगारलक्ख एगसट्ठिसहस्स दो य सय नउय सदिवसा। वीरस्स नंदणभवे खमणाणि य तह य पारणया ॥१॥'
ततच्चेत्थमवसेयं-वर्षलक्षस्य दिनानयनाय वर्षदिवसैः-३६० गुण्यते लक्षः । जातं ३६०००००० । ततो मासक्षपणदिन-३०, पारणकदिन-१, एवं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org