________________
२९० • श्रीनेमिनाथस्तोत्रसङ्ग्रहः सम्यक्त्वलाभश्चैवं अत्र जम्बूद्वीपे अपरविदेहेषु नयसारो ग्रामचिन्तकोऽन्यदा राजाज्ञया श्रेष्टकाष्टोपलब्धये महाऽरण्ये जगाम तत्र सार्थभ्रष्टान् तृष्णाक्षुधाऽऽतुरान् मुनीन् सम्प्राप्तान् पासुकाऽन्नपानैः प्रत्यलाभयत् । मुनिभिश्च योग्यतां मत्वाऽस्याऽग्रे धर्मदेशना कृता । तया चाऽस्य प्रथमो बोधिलाभोऽजनि तेन साधवश्च मार्गेऽवतारिताः, स्वगच्छं प्राप्ताः, सोऽपि स्वस्थानं गतः । साधुसन्दिष्टधर्मकर्मरतः स्वायुः प्रपाल्य, ततो 'रहिय सोहम्मे'त्ति, सौधर्मे कल्पे पल्योपमस्थितिर्देवो भूत्वा इत्यर्थः ।
ततः 'चविउंति च्युत्वा, 'भविउं मरिई'त्ति तृतीये भवे श्रीऋषभप्रभोः पुत्रस्य भरतचक्रिणः पुत्रो मरिचिर्भूत्वा, समये श्रीयुगादिदेवपादान्ते, 'लइउं' लात्वा, 'चरणभरं' चारित्रं प्रतिपाल्य, ततश्चारित्राऽऽवरणोदयात् परीषहान् सोढुमसहिष्णुः 'चइडं च चरणभरं' त्यक्त्वा च चारित्रं, सर्वथा व्रतत्यागे त्रपा स्यात् ततो दर्शनान्तरं करोमीति ध्यात्वा त्रिदण्डित्वं श्रितः श्रीयुगादिदेवपरीवारपार्श्ववर्ती तिष्ठति । अन्यदा श्रीभरतो भगवन्तं 'अस्यामवसप्पिण्यां भावी तीर्थकृतो जीवः कोप्यत्र पर्षदि विद्यते ?' इति पंपच्छ । प्रभुः प्राह-‘मरीचिस्तवाङ्गजोऽत्र भरते पोतनपुरे श्रीश्रेयांसतीर्थकृत्तीर्थे त्रिपृष्टः प्रथमो वासुदेवो भूत्वा, महाविदेहे मूकानगर्यां चक्रवर्ती च भूत्वा, अत्रैव भरते क्षत्रियकुण्डग्रामे चतुर्विंशस्तीर्थङ्करः श्रीवर्धमानो भविष्यतीति' । ततः प्रभुमनुज्ञाप्य च मरीचेरन्तिकं चक्री प्रभूक्तं प्रकटीकृत्य प्राह-'हंहो मरीचे ! त्वमत्र भरते चरमस्तीर्थकृत् भावी, ततस्त्वां वन्दे न पुनस्ते पारिवाज्यमि'त्युक्त्वा तं त्रिः प्रदक्षिणीकृत्य ववन्दे, भरतो भूयः प्रभुं नत्वा पुरीं ययौ । अथ मदवीचिवान् मरीचिर्भुजावास्फोट्य प्रोवाच-अत्राऽर्द्धचक्री प्रथमोऽहं भविष्यामि, विदेहेप्यहं चक्री, अत्राऽर्हत्चाऽपश्चिमोऽहं भविष्यामि । तथा पितामहो मे प्रथमोऽर्हन्, पिता मे प्रथमश्चक्रीति 'ममाहो ! कुलुमुत्तमं ममाहो ! कुलमुत्तममिति' मदं कुर्वन् नीचैर्गोत्रं कर्मोपार्जयत् । अन्यदाऽसौ विधिवशाद् व्याधिबाधितश्चिन्तयति स्म'अमुना व्याधिना मुक्तोऽहं कञ्चन प्रतिचारकं शिष्यं करिष्यामीति' । ततो नीरोगेण तेन कपिलो राजपुत्रकोऽन्यदा साधुधर्मं श्रावितः परं नाङ्गीचकार, प्रत्युत वदतीदं 'यद्ययं धर्मः श्रेयांस्तहि त्वं किं न करोषि ?' मरीचिराऽऽह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org