________________
परिशिष्ट - 'क' • २८९ किं कृत्वा? प्रणम्य-प्रकर्षेण नत्वा, कं?-जिनं वीरं-महावीरं, कथं भूतं-श्रीवीरं?दुरितमेव रजस्तत्र समीरः, तथा मोहपङ्कस्य ओघ:-समूहः तत्र नीरं, पुनः कथम्भूतं? निर्जितानङ्गवीरं जितमदनसुभटं, कस्य तच्चरितं? तस्यैव श्रीमहावीरस्य, कथम्भूतं चरितं ? भवभटप्रतिकूलं, यतः-पुण्यपवित्रश्रीजिनचरित्रश्रवण-स्मरण-धारणनिगरणादिभि-र्भवभटभङ्गः स्यादिति । तथा चाहु:'चिरसंचियपावपणासणाए, भवसयसहस्समहणीए। चउवीसजिणिंदविणिग्गयकहाए वोलंतु मे दीअहा ॥' [श्राद्धप्रतिक्रमणसूत्र-४६] ____ अत एव मोक्षानुकूलं, इह जगति कथं कीर्तयामीत्याह समूलं-सहमूलेन वर्तते समूलं, श्रुतानुसारेणेत्यर्थः, सम्यक्त्वप्राप्ति हेतोर्भवादारभ्येति वाऽर्थः । किं तत् समस्तं कीर्तयिष्यते ?,-नेत्याऽऽह- स्थूलं-अतिप्रसिद्धभवानुगतमित्यर्थः । तदपि किं सर्वं वक्ष्यते ?-नेत्याह किञ्चित्-स्वल्पमेवेत्यक्षरयोजना, वाक्यार्थस्तु यथा- दुरितरज:समीरं मोहपकौघनीरं निर्जितानङ्गवीरं श्रीमहावीरं प्रणम्य तस्यैव श्रीमहावीरस्य भवभटप्रतिकूलं तथा मोक्षानुकूलं चरितं इह जगति समूलं यथा स्थात् तथा किञ्चित् स्थूलं अंहं कीर्तयामीति । इदं मालिनी छन्दः, इति प्रथमकाव्यार्थः ॥१॥ अथ तदेव श्रीवीरचरितप्रपञ्चं प्राहु:
किर गामचिंतगभवे सम्मत्तं लहिय रहिय सोहम्मे । चविउं भविउं मरीई लइउं चइउं च चरणभरं ॥२॥ उस्सुत्तलेसदेसणकयसागरकोडिकोडिभवभमणो । तह पढमवासुदेवो भविय तिवटै जिणुद्दिट्ठो ॥३॥ संसरिय भवे जाओ अवरविदेहम्मि मूयनयरीए । धारिणि-धणंजयसुओ पियमित्तो नाम चक्कहरो ॥४॥ तुडियंगाऊ पालिय पव्वज्जं वासकोडिमुववन्नो । महसुक्के परमाऊ सव्वट्ठवरविमाणम्मि ॥५॥ तो जंबुदीवभरहे भद्दो जियसत्तुरायअंगरुहो । छत्तग्गाइ पुरीए अहेसि तं नंदणो राया ॥६॥ पञ्चभिः कलापकम् ॥ किलेत्याप्तोक्तौ, हे देव ! नयसारनाम ग्रामचिन्तकभवे सम्यक्त्वं लब्ध्वा,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org