________________
२८८ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः
मातुलिङ्ग- गदायुक्तौ बिभ्राणौ दक्षिणौ करौ । वामौ नकुलसर्पाङ्कौ कुर्माङ्कः कुञ्जराननः ॥१॥ मूर्ध्नि फणिफणछत्रो यक्षः पार्श्वोऽसितद्युतिः । तथा पार्श्वप्रभोः पद्मावती शासनदेवता ॥२॥ स्वर्णाभा पद्म-शङ्खाङ्कौ दक्षिणौ बिभ्रति भुजौ । वाम फलाङ्कुशधरौ कुर्कुटरगवाहना ॥३॥' इति । सूत्रे चाऽनयोरनुपादानं संक्षेपचरितत्वात् सूत्रकार- स्थितेर्विचित्रत्वात् वेति मन्तव्यम् । तथा विशाखारुक्षे भव उत्पत्तिर्येषां एवंविधानि पञ्च कल्याणानि यस्य स तथा तत्सम्बोधनम् । तथा वर्षशतायुः त्रयस्त्रिंशत्मुनिभिर्युतः दिवसस्य पूर्वार्द्ध, व्याधारितपाणिः- प्रलम्बितभुजः कायोत्सर्गस्थ इत्यर्थः, मासिकेन तपसामासक्षपणेन, श्रावणशुक्लाष्टम्यां त्वं सम्मेतपर्वते हे जिन ! हे वल्लभ ! सिवसौख्य प्राप्तः । जय-सर्वोत्कर्षेण वर्तस्व । 'जिनवल्लभ' इति कवेर्नाम इति गाथाद्वयार्थः ॥१४- १५॥
साधुसोमगणीशेनाऽक्लेशेनार्थप्रबोधिनी । श्रीपार्श्वचरिते चक्रे वृत्तिश्चित्तप्रमोदिनी ॥ १ ॥
४. श्रीमहावीरस्वामिचरित्रम् ॥ वर्द्धयतु वर्द्धमानः श्रीसिद्धान्तरुचिवाचको वाचम् । चित्तचमत्कृतिचतुरं चतुरनराणां वचो यस्य ॥१॥
अथ क्रमप्राप्तं पञ्चमं श्रीतीर्थाधिपतेः श्रीमहावीरदेवस्य चरित्रं व्याख्यायते तस्येदमादिकाव्यं
दुरियरयसमीरं मोहपंकोहनीरं,
पणमिय जिणवीरं निज्जियाणंगवीरं ।
भवभडपडिकूलं तस्स मुक्खाणुकूलं,
चरियमिह समूलं किंचि कित्तेमि थूलं ॥१॥ [ मालिनी ]
व्याख्या : - कीर्तयामि-कथयामि कः कर्ता ? अहं, किं कर्मतापन्नं ? चरितं,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org