________________
परिशिष्ट - 'क' • २६७ एगा हिरन्नकोडी अठेव अणुणगा सयसहस्सा । सूरोदयमाईउं दिज्जइ जा पाउरा सा ओ ॥१॥
[आचाराङ्ग:-११३/आवश्यकनियुक्ति-२१७] तथा च
तिन्नेव य कोडिसया अट्ठासीयं च हुंति कोडीओ। असीइं च सयसहस्सा एवं संवच्छरे दिन्नं ॥२॥ [आचाराङ्गः-११४]
एतावन्नियतं सुवर्णदानं, अनियतं तु गजाऽश्व-रत्न-मणि-वस्तु-दुकूलसुवर्ण-माणिक्य-ग्रामादि यद् येन याचितं तदेव तस्मै दत्तमित्यपि ज्ञेयं । तथा शिबिकायां सुदर्शनाभिधायां यानविशेष आरूढ इति गम्यं, षष्टेन तपसा साधकतमेन षष्टं तपः कृत्वेत्यर्थः । वामस्कन्धोपरीन्द्रार्पितदिव्यवस्त्रविशेषधरः ॥१४॥
तथा सिद्धार्थनाम्नि वने, अशोकतरोस्तले-अधस्तात्, चतुर्भिः नृपसहस्रैः चैत्रे मासि, बहुलाष्टम्यां अपराह्ने -पश्चिमपौरूष्यां, हे जिन ! त्वं विनिःक्रान्तोगृहस्थधर्माद्विनिर्गतः-श्रमणीभूतः । तदा च भगवतश्चतुर्थं मनःपर्यवज्ञानमप्युत्पन्नमिति स्वयमभ्युदयं । यतः
"तिहिं नाणेहिं समग्गा, तित्थयरा जाव हुंति गिहिवासे। पडिवन्नम्मि चरित्ते, चउनाणी जाव छउमत्था ॥१॥ [आवश्यक०११०] इति गाथार्थः ॥१५॥ अथ भगवतः प्रथमपारण-विहारादि सङ्केपेण प्रज्ञापयन्तिसेयंसेण गयउरे इक्खुरसेण वरिसे तुमं पढमं । पाराविय खावियमिह महाफलं सुमुणिवरदाणं ॥१६॥
श्रेयांसेन भगवत्प्रपौत्रेण-बाहुबलेः पुत्रः सोमप्रभस्तत्पुत्रः श्रीश्रेयांस इति । गजपुरे-श्रीहस्तिनागपुरे, इक्षुरसेन, वर्षे दीक्षाकालादतिक्रान्ते सति, त्वां प्रथम पारयित्वा-तव प्रथमं पारणं कारयित्वेति भावः । इह जगति सुमुनीनांनिरतिचार-सर्वविरतिसंयमवतां वरस्य-निरवद्यस्य प्रासुकैषणीयस्य वस्तुनो दानं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org