________________
२६६ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः देवी सुमंगलाए भरहो बंभी य मिहुणयं जायं । देवीइ सुनंदाए बाहुबली सुंदरी चेव ॥३॥ अउणापन्नं जुयले, पुत्ताण सुमंगला पुणो पसवे । नीईय अइक्कमणे, निवेयणं उसभसामिस्स ॥४॥ राया करेइ दंडं, सिट्ठिति विंति अम्ह वि सहो । उमग्गहयकुलगरं सो य, वेइ उसभो य भे राया ।।५।। आलोएउं सक्को, उवागउ कुणइ तस्स अभिसेयं । मउडाइ अलंकारं, नरिंद जोगं च से कुणइ ॥६॥
[आव०नियुक्ति-१९५-१९९] इत्यादि श्रीआवश्यकोक्तयुक्त्या विंशतिलक्षाः कुमारभावे, राज्ये त्रिषष्टिपुर्वलक्षास्त्वं अत्थिय'त्ति स्थित्वा-अवस्थाय, पूर्वप्रमाणं च यथा
'पुव्वस्स य परिमाणं, सइरिं खलु हुंति वासकोडिलक्खाओ। छप्पन्नं च सहस्सा, बोधव्वा वासकोडीणं-ति ॥१॥
[बृहत्सङ्ग्रहणी-त्रैलोक्य०वृत्ति-४३४] कथम्भूतस्त्वं स्थित ? इत्याहुः-सुरैविहितो-निष्पादितो देवकुरूत्तरकुरुसत्कफलपुष्पादिरूप आहारविधिर्यस्य स तथा । उक्तं च आवश्यके'उसहस्स गुहावासे अ सक्कउ आसि आहारो' इति तथा दर्शिताः-प्रकटिताः कला लिखित-गणिताद्याः शिल्पानि घट-लोह-चित्र-तन्तुवाय-कास्यपकृषि-वाणिज्यादीनि येन स दर्शितकला-शिल्पः ___तथा जीतं कल्पस्थितिराचारो-अवश्यम्भावेनेति कर्तव्यता इति कारणात्, लोकान्ते भवाः लोकान्तिकाः ब्रह्मलोकवास्तव्याः सारस्वतादयःसारस्सय १ मायच्चा २ वह्नी ३ वरुणा य ४ गद्दतोया य ५।। तुसिया ६ अव्वावाहा ७ अग्गिच्चा ८ चेव रिट्ठा य ९॥१॥ [ज्ञाताधर्मकथा-१/८]
इत्येते एकान्तसम्यग्दृष्ट्यो देवविशेषाः तैविशेषेण बोधितो-विबोधितः । स्वयं जानन्नपि व्रतसमयं ज्ञापितः न पुनः भगवांस्तदुपदेशमपेक्षते स्वयं बुद्धत्वात् । तथा वर्षं यावद् दत्तं वरं-वाञ्छितं दानं येन स वर्षदत्तवरदानः । तत्र च प्रतिदिनं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org