________________
परिशिष्ट - 'क' • २६५
अद्भूतभूतः - आश्चर्यभूतोऽभिषिक्तस्त्वम् कैरित्याहुः भवद्भावैरुल्लसदभिप्रायैः सहर्षैरिति यावत्, अखिलैः चतुःषष्टिसङ्ख्यैरसङ्ख्यैर्वा सुरेन्द्रैरिति गाथार्थः ॥११॥
अथ स्वामिनो जन्मनः किञ्चिदूने संवत्सरे गते सौधर्मेन्द्रो वंशस्थापनार्थं समागत्य-रिक्तहस्तं न वीक्षेत राजानं देवतां गुरुं नैमितिकं विशेषेण फले फलमादिशेदिति स्थिते: सेक्षुयष्टिः श्रीनाभ्युत्सङ्गनिषण्णं प्रभुं प्रणम्य, वंशस्थापनार्थमग्रतस्तस्थौ । तदा च शक्रकरकलितेक्षुमभिलषिता भगवता करप्रसारः इतीक्षूणामाकर्षाऽभिलाष एषामित्येते इक्ष्वाकव इतीक्ष्वाकुनाम्ना भगवतो वंशस्थापना शक्रकृता समजनीत्येनमर्थं सूचयन्तः प्राहु:सक्करकलियमिक्खु बालत्ते दट्टुमभिलसंतेण । इक्खागुवंसबीयं जए पणीयं तए चेव ॥ १२ ॥
शक्रकरकलितं इक्षु बालत्वे द्रष्टुं समवलोकयितुमभिलषता 'तए चेव'त्ति त्वयैव इक्ष्वाकुवंशस्य बीजं जगति प्रणीतं - प्रकाशितमिति गाथार्थः ॥१२॥ अथ भगवतो गृहवासस्थितिं दीक्षाकल्याणकं चाहु:वीसं कुमारभावे रज्ज तेवट्ठिपुव्वलक्खे तं । सुरविहियाऽऽहारविही अत्थिय दरिसियकला - सिप्पो ॥१३॥ जीयं ति य लोयंतियविबोहिओ वरिसदिन्नवरदाणो । सिबियासुदंसणाए छद्वेण देवदूतधरो ॥१४॥ सिद्धवणे तमसोगतरुअहे व चउहिं निवसहस्सेहिं सह । चित्ते बहुलट्ठमि अ अवरने जिण विणिक्खंतो ॥१५॥ तिसृभिः ० ॥
व्याख्या
देशोनवर्षादूर्द्धं सुनन्दा - सुमङ्गलासहितस्य वृद्धिं गच्छतो भगवतः भोगसमत्थं नाउं वरकम्मं कासि तस्स देविंदो ।
दुहुं वरमहिलाणं बहु कम्मं कासि देवीओ ॥१॥ छप्पुव्वसयसहस्सा, पुव्विं जायस्स जिणवरिंदस्स । तो भरह - बंभ-सुंदरि - बाहुबली चेव जायाई ॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org