________________
२६४ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः 'तिहिं नाणेहिं समग्गा तिथ्थयरा जाव हुंति गिहवासे। पडिवन्नम्मि चरिते चउनाणी जाव छउमत्था ॥ नेरइय-देव-तिथ्थयरा य ओहिस्स बाहिरा हुंति। पासंति सव्वउ खलु सेसा देसेण पासंति' ॥ [विशेषावश्यकभाष्य-७६६]
इति, सर्वोत्कृष्टं अप्रतिपातिकमाकेवलोत्पत्तिरवधिज्ञानमवधिदर्शनं चासीत् तच्च परमावधेः किञ्चिन्न्यूनं ज्ञेयम् एवंविध 'इहागय'ति इहागतमत्राऽवतीर्णं त्वां चतुर्दशसङ्ख्या वराः प्रधानाः स्वप्ना वृषभ-गज़-सिंहादयस्तैरुक्तमपि ज्ञापितमपि सहसा तत्क्षणात् स्वप्नदर्शनादनन्तरमेव, सकलेन्द्राः-सर्वसुरेन्द्राः, स्वप्नार्थमभिशंसितुं समकालमागत्य निवेदयामासुः मातापित्रोरिति शेषः । एतेन गर्भगतेऽपि भगवति त्रिज्ञानोपेतत्वं, मातुः स्वप्नलाभः, तदाकालत्यस्वप्नपाठकाऽभावादिन्द्रेः स्वप्नार्थकथनेन भगवदवतारप्रतिपादनं चेत्यर्थत्रयं दर्शितमिति गाथार्थः । अथ जन्मकल्याणकं व्यञ्जयन्तः प्राहुः
वसहंको कणयवन्नो कासवगोत्तो कयतिहुयणुज्जोओ । कसिणट्ठमीइ चित्ते धणुम्मि रासिम्मि तं जाओ ॥९॥
हे देव ! त्वं वृषभाङ्को-वृषभलाञ्छनः, कनकवर्णः, काश्यपगोत्रः, कृतत्रिभुवनोद्योतः, चैत्रमासि कृष्णाष्टम्यां धनुषि राशौ जातो-गर्भान्नि:क्रान्तोजनित इति गाथार्थः ॥९॥ अथ जन्मसमयगतान्विशेषान्वर्णयन्ति
अह चलियासणछप्पनदिसकुमारिकयसूइकायव्वो । तुमममरगिरिम्मि सुहम्मसामिणा लहु सयं नीओ ॥१०॥
अथेत्यानन्तर्ये ततो जन्मान्तरमेव चलिताऽऽसनषट्पञ्चाशदिक्कुमारीकृतसूतिकर्तव्यः सन् त्वं अमरगिरौ मेरुपर्वते सौधर्मेन्द्रेण लघु-शीघ्रं स्वयं नीत इति गाथार्थः ॥१०॥
ता भत्तिब्भरनिब्भरमब्भुयभूओ भवंतभावेहिं । सव्विडिवड्डियायरमहिसित्तोऽखिलसुरिंदेहिं ॥११॥
ततो भक्तिभरनिर्भरं, सर्वा-समस्तोचितेष्टवस्तुघटनालक्षणया सर्वसम्पदा वर्द्धित आदरो यत्राऽभिषेके तत् तथा, इति द्वे अपि क्रियाविशेषणे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org