________________
२६८ • श्रीनेमिनाथस्तोत्रसंङ्ग्रहः सुमुनिवरदानं, महाफलं, ख्यापितं-प्रकीर्तितं, प्रथममित्यत्राऽपि सम्बध्यते यतो हि भगवान् दीक्षां गृहीत्वा भिक्षायै वर्षं यावत् प्रतिदिनं प्रतिगेहं ग्राम-नगरादौ बभ्राम परं न तदानींतना जना मुनिदानं विदन्ति, ततो धन-कनक-रत्नकन्यागजाश्वादिकं स्वामिबुध्या प्रयच्छन्ति । तच्च निरीहत्वादकल्पनीयत्वाच्च भगवान्नाऽऽदत्ते । एवं गजपुरे भगवन्तं भ्रमन्तं महाक्षीणाङ्गं गवाक्षस्थेन श्रेयांसकुमारेण दृष्ट्वा इहापोहं कुर्वता जातिस्मरेण पूर्वभवाचीर्णं चारित्रं श्रुतं च स्मृत्वा परमभक्तिभरेण भगवतः प्रासुकेन पुण्ड्रेक्षुरसेन पारणा कारिता । सर्वत्रोपदिष्टं च मुनिदानं तत्प्रथमतयेत्यादिव्याख्यार्थो महाचरित्रेभ्योऽवसेयं स्तुतिश्चाऽत्र
'श्रीश्रेयांसकुमार एव जयतात् पुण्यात्मनामग्रणीर्येन त्वं यत एकवत्सरमनोहारोऽतिशुष्काङ्गकः। पुण्ड्रेक्षुद्रवकुम्भलोठनवशादाप्यायि विश्वत्रयी-, कल्पद्रुर्विहितः स नूतनरूचिः श्रेयः फलेषून्मुखः ॥१॥ [शार्दूलविक्री०] अलं प्रसङ्गेनेति गाथार्थः ॥१६॥ पंचधणुसय पमाणो चउनाणो तुममसंग ! मोणेण । बहुदेसेसु विहरओ वाससहस्सं निरुवसग्गं ॥१७॥
पञ्चधनुःशतप्रमाणः, चतुर्ज्ञानी त्वं हे असङ्ग ! हे निःसङ्ग ! मौनेन बहुदेशेष्वार्यानार्येषु विहृतो वर्षसहस्रं यावन्निरुपसर्ग यथा स्थात् तथेति गाथार्थः ॥१७॥ अथ केवलज्ञानोत्पत्तिमाहुः
तुह पुरिमतालपुरि सगडमुहवणे अट्ठमेण वडहिढे । फग्गुणकसिणिक्कारसि पुव्वों केवलं जायं ॥१८॥
हे असङ्ग ! पूर्वगाथास्थमिह सम्बध्यते । तव पुरिमतालनाम्नि पुरे शकटमुखनाम्नि वने अष्टमेनोपवासत्रयरूपेण तपसा कारणभूतेन वटवृक्षस्याधः फाल्गुनकृष्णैकादश्यां पूर्वाह्न-प्रथमपौरुष्यां केवलमसहायं सम्पूर्ण शुद्धं अनन्तं वा पदैकदेशे पदसमुदायोपचारात् केवलज्ञानं जातं-समुत्पन्न मति-श्रुतावधिमनःपर्यवज्ञानाभावोऽजनि । उक्तं च -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org