________________
१२) साधुसोमगणिकृतटीकासमन्वितानि जिनवल्लभसूरिप्रणीतानि पञ्चजिनचरित्राणि ॥
१. श्रीआदिनाथचरित्रम् ॥ . वर्धयतु वर्धमानः, श्रीसिद्धान्तरुचिवाचको वाच्यम् । चित्तचमत्कृतिचतुरं, चतुरनराणां वचो यस्य ॥१॥ [आर्या] जिनवल्लभसूरीन्द्रकृते चरितपञ्चके।
संक्षिप्तरुचिरं किञ्चिद् व्याख्यानं वितनोम्यहम् ।।२॥ अर्थयुगलम् ।। तथाहि
नमियजिणमुसभमुभयंसदेसविलसंतकसिणकेसचयं ।
मुहससिजुण्हातण्हारसभमिरचकोरजुयलं च ॥१॥ व्याख्या
नत्वा-प्रणम्य जिनं-वीतरागं, ऋषभं-श्रीयुगादिदेवं, किं विशिष्टं ? उभयांऽसदेशविलसत्कृष्णकेशचयं, भगवता हि दीक्षा ग्रहणक्षणे चतुमौष्टिलोचविरचनान्तरं पृष्टिप्रदेशऽऽगतवरतरसमीरणप्रसरणवशेन सुवर्णसकाशोभयांऽसदेशोपरि विनीलाश्मप्रकाशः के शापाशप्रसरः शोभासम्भारमावहन् विहितपुरहूतप्रभूताऽऽग्रहेणं परमेश्वरेण तथैवाऽवस्थापित इति उत्प्रेक्ष्यते-मुखमेव शशी तस्य ज्योत्स्नायां तृष्णारसोऽभिलाषाऽतिरेकस्तेन भ्रमणशीलं चकोरयुगलमिव ॥१॥
एवंविधं श्रीऋषभं प्रणम्य किमित्याहअसुरिंद-सुरिंद-नरिंद-विंदवंदिय-थुयस्स । तस्सेव थोयारहियकरं किर सुचरियकणकित्तणं काहं ॥२॥
असुरेन्द्र-सुरेन्द्र-नरेन्द्रवृन्दवन्दित-स्तुतस्य वन्दितश्चाऽसौ स्तुतश्चेति समासः । तस्यैव श्रीऋषभजिनवरस्य स्तोतॄणां हितकरं, किलेत्यात्मनोऽशक्तिसूचकं, सुचरितकणस्य कीर्तनं बोधिबीजावाप्तिहेतोर्भवादारभ्य सुचरित्रलेशकीर्तनं करिष्यामि ॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org