________________
२६२ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः अथेत्थं गाथायुगलेन विशिष्टेष्टदेवतास्तुतिपूर्वमभिधेयप्रयोजनाद्यभिधायप्रतिज्ञार्थमेव समर्थयन्ते श्रीपूज्याः ।।
धणभवमुणिदाणफलेण भविय उत्तरकुरूसु मिहुणनरो । सोहम्मसुरो तो इह महाबलोऽवरविदेहे तं ॥३॥ संबुज्झिय ईसाणे, ललियंगसुरो सिरिप्पहविमाणे । संजाओऽसि तउ पुण पुव्वविदेहे वयरजंघो ॥४॥ युग्मम् ॥
इहैव जम्बूद्वीपे पश्चिमे महाविदेहे क्षितिप्रतिष्ठितपुरे धनो नामा सार्थवाह आसीत् । तस्मिन् धनभवे सार्थप्रस्थितमुनीनां घृतदानं ददतो भगवज्जीवस्य प्रथमो बोधिलाभः । ततो मुनिदानफलेन, 'भविय त्ति'- भूत्वा उत्तरकुरुषु मिथुननरो युगलिकमनुष्यः, ततः प्राग्जन्मजनितमुनिदानप्रभावात् सौधर्मदेवलोके सुरो-देवो भूत्वा, तत इह जम्बूद्वीपे अपरविदेहेषु त्वं महाबलो राजा भूत्वेत्यनेन योगः । स्वयम्बुद्धमन्त्रिवचनात् सम्बुध्य-प्रतिबोधं प्राप्य, दीक्षां गृहीत्वा, प्रान्ते द्वाविंशतिदिनान्यनशनं कृत्वा, विपद्य, ईशाने देवलोके श्रीप्रभविमाने ललिताङ्गनामा सुरः सञ्जातोऽसि । ततः पुनः पूर्वविदेहेषु वैर(वज्र)जङ्घो राजा सञ्जातो-ऽसीति गाथार्थः ॥३-४॥
उत्तरकुरु मिहुणनरो, सोहम्मसुरोह बारसमि विजए । विज्जसुओ चक्किसिरिं साहुतिगिच्छाए संचिणिय ॥५॥ जाओ तमच्चुयसुरो, अट्ठमविजए य भविय चक्कहरो । वीसंठाणे सेविय निबंधिउं तित्थयरनामं ॥६॥ सव्वट्ठसुरवरसिरिं तित्तीसयरेऽणुभूयावयरिओ।
इक्कागु भूमीए तुममासाढे पढमचउत्थीए ॥७॥ तिसृभिः कुलकम् ॥ व्याख्या
तत्र च, स च वज्रजङ्घो राजा राज्यार्थिपुत्रकृतविषधूपप्रयोगेण मृत्वा उत्तरकुरुषु मिथुननरः । ततः सौधर्मे देवलोके सुरः । अथाऽनन्तरं द्वादशे विजये वैद्यसुतो जीवानन्दनामा त्वं जातः । तत्र चक्रिलक्ष्मी चक्रवर्तिसमृद्धि साधुचिकित्सया करणभूतया सञ्चित्योपाय॑ ॥५॥
जातस्त्वमच्युते-द्वादशे स्वर्गे सुरो-देवः शक्रसामानिको द्वाविंशति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org