________________
परिशिष्ट - 'क' • २५३
१३. श्रीविमलनाथस्तवः ॥ विमलो जगतीनाथः, सततं विमलो जिनः । निर्मदो निर्ममो जीयान्निर्दोषो निर्गतामयः ॥१॥ स्वामिन् ! निर्दोह ! निर्मोह ! निर्लोभ ! गतमत्सर ! । जय निःसङ्ग ! निर्माय !, निरीह ! हततामस ! ॥२॥ हतदुःकर्मसङ्घात !, हतपातकसञ्चय ! । हतसंसारसन्ताप !, हतमन्मथ ! पाहि नः ॥३॥ त्यक्तराज्यरमाराम ! नीरागं जय नीरज: ! । त्रस्तभावद्विषज्जात !, प्रदातस्नेहबन्धन ! ॥४॥ मुक्तेनिःशोक ! निःकोप !, निर्दम्भ ! मम निर्भय ! । त्वं यच्छ शर्म निर्हास !, मरणोज्झित ! निर्भव ! ॥५॥
१४. श्रीअनन्तनाथस्तवः ॥ श्रीअनन्तजगन्नाथमनन्तयशसं जिनम् । अनन्तपृथुविज्ञानमनन्तसुखदं स्तुवे ॥१॥ नाभिभूतश्चतुर्वक्त्रो, हंसगामी प्रजापतिः । सदा ब्रह्माऽसि धातेव, प्रभो ! चित्रमराजसः ॥२॥ अरिष्टनरकच्छेदी, श्रीपतिः पुरुषोत्तमः । चित्रं विष्णुरिवाऽसि त्वमगदो न जनार्दनः ॥३॥ सर्वज्ञो मदनद्वेषी, शम्भुरीशो महाव्रती। शङ्करोऽसि तदाश्चर्य, नेतर्यदभवो भवान् ॥४॥ ब्रह्मरूपस्त्वमेवाऽसि, शङ्करः पुरुषोत्तमः । इति देवत्रयीरूपस्त्वमेव भुवने मतः ।।५।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org