SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २५४ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः १५. श्रीधर्मनाथस्तवः ॥ धर्मनाथ ! कृपां कुर्याः, पततीह भवे मयि । यस्मात् त्वच्छदृशो नाऽन्यः, करुणारससागरः ॥१॥ नास्तीह त्वत्समो दाता, नास्ति रोरोऽपि मत्समः । अतो मे याचितं देहि देहि व्यूहहितः शिवम् ॥२॥ त्रैलोक्यदुः स्थितोद्धारे, त्वमेव कृतसङ्गरः । मत्तुल्यो दुःस्थितो नाऽतो, मामुद्धर कृपापर ! ॥३॥ भीतत्राणे महान्तो हि, तत्परास्तेषु सत्तरः । त्वमेकोऽसि ततो भीतं, पाहि मां मोहभूपतेः ॥४॥ आत्मतुल्यमुदारेशाः कुर्वन्ति निजसेवकम् । त्वं सीमा तेषु भृत्योऽहं तवेति जिन ! चिन्तय ॥५॥ १६. श्रीशान्तिनाथस्तवः ॥ शान्तिनाथ जिन भक्त्या, सुरा - सुर-नराचितम् । स्तुवे शान्तिकरं शान्तिमन्दिरं मन्दधीरहम् ॥१॥ शिवश्रीसङ्गदातारं, हन्तारं जगदापदाम् । भवन्तं को न वन्देत, वीतराग ! सचेतनः ॥२॥ सुधापानं मरौ देशे, यथा पुंसोऽतिर्दुलभम् । तथैवाऽकृतपुण्यस्य, दुर्लभो मृगलाञ्छनः ॥३॥ प्राप्याऽपि जिन ! निर्दोषं, दुःप्रापं तव शासनम् । प्रमादं कुर्वते येऽत्र, ही तेषामतिमूढता ॥४॥ श्रीशान्ते ! भवतः पार्श्वे, न याचे शक्रसम्पदम् । वाञ्छामि भवदाज्ञायाः, पालनं तु भवे भवे ॥५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy