________________
परिशिष्ट - 'क' • २५१
९. श्रीसुविधिनाथस्तवः ॥ सुविधे ! सुविधे धीर सुमते सुमते यते । तावके पावके त्यक्तवनितो विनतोस्म्यहम् ॥१॥ अनेकनयसङ्कीर्णं दुर्लभं भवदागमम् । कुतीर्थिकशताऽगम्यं, प्रमाणाऽबाध्यमाश्रयेत् ॥२॥ याऽऽराद्धा कल्पवल्लीव, जन्तूनां कल्पितप्रदा। त्वदाज्ञामनिशं शीर्षे, शेषामिव वहामि ताम् ।।३।। प्रदत्ते सुगतेयुग्म, युगं हन्ति च दुर्गतेः । भव्यानां पालितं यत् ते दर्शनं तदहं श्रये ॥४॥ चारित्रेण पवित्रेण, कृत्स्नं कर्मक्षयं व्यधाः । त्वं येन तरसा देहि, तन्ममाऽपि तमोपहम् ।।५।।
१०. श्रीशीतलनाथस्तवः ॥ श्रीशीतलजिनाधीश ! सर्वज्ञ ! परमेश्वर ! । भगवन् ! सुचिरं नन्द, योगीश्वर ! महामुने ! ॥१॥ देवाधिदेव ! तीर्थेश !, पुरुषोत्तम ! शङ्कर ! ।। जय पारगत ! स्वामिन् !, केवलज्ञानसत्तम ! ॥२॥ वीतराग ! महादेव !, स्वयम्भू ! मुनिनायक ! । सवीर्यः सर्वज्ञः सार्बः, त्रायस्व त्वं त्रिकालवित् ॥३॥ जिनं क्षीणाष्टकर्माणमभयप्रदमुत्तमम् । स्याद्वादवादिनं सर्वदर्शिनं बोधिदं नुमः ॥४॥ तीर्थंकराय देवाय, शम्भवे विभवे भवे । अर्हतेऽनिशमाप्ताय, नमः श्रीपरमेष्ठिने ॥५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org