SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २५० • श्रीनेमिनाथस्तोत्रसङ्ग्रहः . ७. श्रीसुपार्श्वनाथस्तवः ॥ श्रीसुपार्श्वजिनेन्द्रस्य, चन्द्रस्य जगतः स्तुवे । स्याद्वादिनः क्रमाम्भोजमभवस्य स्वयम्भुवः ॥१॥ नहि कस्य मुदे देव ! भवतो मुखचन्द्रमाः ?।। अकलङ्कः सदा सौम्यकान्तिश्रीसदलङ्कृतः ॥२॥ सुधाकुण्डाऽऽभयो रम्यनेत्रयोस्तव सौम्ययोः । कमलाकारयोस्तारतारयोर्भद्रमन्वहम् ॥३॥ . पद्मरागारुणप्रेकन्नखद्युतिविराजितम् । वीक्ष्यते को मुदं नाऽप? सल्लक्षणकरद्वयम् ॥४॥ पुण्यलावण्यसम्भारं सौभाग्यपदमद्भुतम् । दृष्ट्वा ते निर्मलं रूपं, को न चित्रीयते सुधी: ? ॥५॥ ८. श्रीचन्द्रप्रभजिनस्तवः ॥ चन्द्रप्रभ ! – देव ! त्वां, चन्द्रोज्वलतनुत्विषम् । चन्द्राननमहं स्तौमि, चन्द्रलाञ्छनमादरात् ॥१॥ कर्ता विश्वोपकाराणां, ज्ञाता त्रैलोक्यवस्तुनः । त्यक्ता राज्यश्रियो जीयात् प्राप्ता मुक्तिपुरं परः ॥२॥ त्रातारं विश्वजन्तूनां, दातारं शिवसम्पदाम्। हन्तारं भावशत्रूणां, नेतारं नौमि भक्तितः ॥३॥ स्वामिनेऽखिलविश्वस्य, शमिने दमिने सदा। नयिने यमिने भूयात् पायिने ज्ञानिने नमः ॥४॥ हरते कुमतेत्यामान्, कुर्वते जगते हितम् । श्रीमते धीमते नेतर्महते भवते नमः ॥५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy